TBD.
सुब्रह्मण्या नाम निगदस् तत्र यज्ञकर्मणि इति विभाषा छन्दसि 1-2-36 इति च एकश्रुतिः प्राप्ता प्रतिषिद्यते। सुब्रह्मण्यायाम् एकश्रुतिर् न भवति। यस् तु लक्षणप्राप्तः स्वरितस् तस्यौदात्त आदेशो भवति। सुब्रह्मन्योम्। इन्द्रागच्छ, हरिव आगच्छ, मेधातिथेर्मेष वृषणश्वस्य मेने। गौरावस्कन्दिन्नहल्यायै जार कौशिकब्राह्मण गौतमब्रुवाण श्वः सुत्यामागच्छ मघवन्। अत्र सुब्रह्मण्योम् इत्योकारस् तित्स्वरेण स्वरितस् तस्यौदात्तो विधीयते। इन्द्र आगच्छ इत्यामन्त्रितम् आद्युदत्तम्। द्वितीयो वर्णो ऽनुदात्तः। उदात्तादनुदातस्य स्वरितः इति स्वरितः प्रसक्तस् तस्य अनेनौदात्तः त्रियते। तदेवम् इन्द्र आगच्छ इति चत्वार उदात्ताः। पश्चिम एको ऽनुदात्तः। हरिव आगच्छ इत्यनयैव प्रक्रियया चत्वार उदात्ताः द्वावनुदात्तौ। मेधातिथेः इति षष्ट्यन्तं परमामन्त्रितम् अनुप्रविशति सुबामन्त्रिते पराङ्गवत्स्वरे 2-1-2 इति। ततः सकलस्या मन्त्रिताद्युदात्तत्वे इऋते द्वितीयम् अक्षरम् अनुदात्तं, तस्य उदात्तादनुदात्तस्य स्वरितः 8-4-66 इति स्वरितत्वे प्राप्ते इदमुदात्तत्वं विधीयते। तेन द्वावप्युदात्तौ भवतः। शेषमनुदात्तम्। वृषणश्वस्य मेने इति समानं पूर्वेण। गौरावस्कन्दिनिति तथैव द्वे आद्ये अक्षरे उदात्ते, शेषम् अनुदात्तम्। अहल्यायै जार इति सुबन्तस्य अमन्त्रितानुप्रवेशात् तद्वदेव स्वरः। द्वावुदात्तौ शेषम् अनुदात्तम्। कौशिकब्रह्मण इति समस्तमामन्त्रितमाद्युदात्तं तत्र पूर्ववद् द्वावुदात्तौ शेषम् अनुदात्तम्। एवम् गौतमब्रुवाण इति द्वावुदात्तौ शेषम् अनुदात्ताम्। श्वः सुत्यामागच्छ मघवनिति श्वःशब्द उदात्तः सुत्याम् इत्यन्तोदात्तः। संज्ञायां समजनिषदनिपतमनविदषुञ् शीङ्भृञिणः 3-3-99 इति क्यपो विधाने उदात्तः इति वर्तते। अगच्छ इति द्वौदात्तौ। अन्त्यो ऽनुदत्तः। मघवनिति पदात् परमामन्त्रितं निहन्यते।
TBD.
–
–
–
TBD.