Table of Contents

<<1-1-53 —- 1-1-55>>

1-1-54 आदेः परस्य

प्रथमावृत्तिः

TBD.

काशिका

परस्य कार्यं शिष्यमाणम् आदेरलः प्रत्येतव्यम्। क्व च परस्य कार्यम् शिष्यते? यत्र पञ्चमीनिर्देशः। तद् यथाईदासः 7-2-83 आसीनो यजते। द्व्यन्तरुपसर्गेभो ऽप ईत् 6-3-97 द्वीपम्। अन्तरीपम्। प्रतीपम्। समीपम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

72 परस्य यद्विहितं तत्तस्यादेर्बोध्यम्. इति सस्य थः..

बालमनोरमा

46 आदेः परस्य। परस्येति। `द्व्यन्तरुपसर्गेभ्योऽप ई'दित्यादौ `तस्मादित्युत्तरस्ये'ति परिभाषायां परस्य नियमितं कार्यं यत् तत्तस्यादेरेव भवति, नत्वलोऽन्त्यस्येति तदन्तस्येत्यर्थः। तदाह–अलोन्त्यस्येत्यस्यापवाद इति। तत्र `अल' इत्यप्यनुवर्तनीयम्। तेन `द्वीप'मित्यत्र ईत्वं पान्तसमुदायस्य न भवति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.