TBD.
अत्र अपि नित्या सर्वनामसंज्ञा प्राप्ता जसि विभाष्यते। स्वम् इत्येतच्छब्दरूपं जसि विभाषा सर्वनामसंज्ञं भवति , न चेज् ज्ञातिधनयोः संज्ञारूपेण वर्तते। स्वे पुत्राः, स्वाः पुत्राः। स्वे गावः, स्वा गावः। आत्मीयाः इत्यर्थः। ज्ञातिप्रतिषेधः इति किम्? धूमायन्त इव अश्लिष्टाः प्रज्वलन्ति इव संहताः। उल्मुकानि इव मे ऽमी स्वा ज्ञातयो भरतर् षभ। अधनाख्यायाम् इति किम्? प्रभूताः स्वा न दीयन्ते, प्रभूतः स्वा न भुज्यन्ते। प्रभूतानि धनानि इत्यर्थः।
TBD.
157 ज्ञातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा. स्वे, स्वाः; आत्मीयाः, आत्मान इति वा. ज्ञातिधनवाचिनस्तु, स्वाः; ज्ञातयोर्ऽथा वा..
217 स्वमज्ञाति। अत्रापि सर्वनामानीति विभाषा जसीति चानुवर्तते। ज्ञातिश्च धनं च ज्ञातिधने, तयोराख्या-ज्ञातिधनाख्या, न ज्ञातिधनाख्या अज्ञातिधनाख्या, तस्याम्– अज्ञातिधनाख्यायाम्। `स्व'मिति शब्दस्वरूपापेक्षया नपुंसकत्वम्। तदाह– ज्ञातिधनान्येति। स्वेस्वा इति। सर्वनामत्वे शीभावः, तदभावे तदभाव इति भावः। आत्मा आत्मीयं ज्ञातिः धनं चेति स्वशब्दस्य चत्वारोऽर्थाः। `स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने' इत्यमरः। अत्र `स्वो ज्ञातावात्मनी'त्येकं वाक्यम्। ज्ञातावात्मनि च स्वशब्दः पुँल्लिङ्ग इत्यर्थः। `स्वं त्रिष्वात्मीये'इति द्वितीयं वाक्यम्। आत्मीये स्वशब्दो विशेष्यनिघ्न इत्यर्थः। `स्वोऽस्त्रियां धने' इति तृतीयं वाक्यम्। धने स्वशब्दः पुंनपुंसक इत्यर्थः। `स्वः स्यात्पुंस्यात्मनि ज्ञातौ, त्रिष्वात्मीये।ञस्त्रियां धने' इति मेदनीकोशः। तत्र ज्ञातिधनयोः पर्युदासादात्मनि आत्मीये च सर्वनामता जसि विकल्प्यत इत्यबिप्रेत्य व्याचष्टे– आत्मीया इत्यर्थः। आत्मान इति वेति। ज्ञातिधनपर्युदासस्य प्रयोजनमाह– ज्ञातिधनवाचिनस्त्विति। ज्ञातिवाचिनो धनवाचिनश्च सर्वनामत्वपर्युदासाज्जसि `स्वाः' इत्येव रूपमित्यर्थः। नच ज्ञातिधनयोरप्यात्मीयत्वपुरस्कारे सर्वनामत्वं न स्यादिति वाच्यम्, आख्याग्रहणबलेन ज्ञातित्वधनेत्वपुरस्कार एव पर्युदासप्रवृत्तेः।
–
TBD.