Table of Contents

<<1-1-33 —- 1-1-35>>

1-1-34 पूर्वपरावरदक्षिणौत्तरापराधराणि व्यवस्थायाम् असंज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

पूर्व पर अवर दक्षिण उत्तर अपर अधर इत्येषां गणे पाठात् पूर्वेण नित्यायां सर्वनामसंज्ञायां प्राप्तायां जसि विभाषा आरभ्यते। पूर्वादीनि विभषा जसि सर्वनामसंज्ञानि भवन्ति व्यवस्थायाम् असंज्ञायाम्। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। पूर्वे, पूर्वाः। परे, पराः। अवरे, अवराः। दक्ष्णे, दक्ष्णाः। उत्तरे, उत्तराः। अपरे, अपराः। अधरे, अधरः। व्यवस्थायाम् इति किं? दक्षिणा इमे गाथकाः। प्रवीणाः इत्यर्थः। असंज्ञायाम् इति किम्? उत्तराः कुरवः। सत्याम् एव व्यवस्थायाम् इयं तेषां संज्ञा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

156 एतेषां व्यवस्थायामसंज्ञायां च सर्वनामसंज्ञा गणसूत्रात्सर्वत्र या प्राप्ता सा जसि वा स्यात्. पूर्वे, पूर्वाः. असंज्ञायां किम्? उत्तराः कुरवः. स्वाभिधेयापेक्षावधिनियमो व्यवस्था. व्यवस्थायां किम्? दक्षिणा गाथकाः, कुशला इत्यर्थः..

बालमनोरमा

216 अथ सर्वादिगणान्तर्गततिसूत्रीसमानाकारामष्टाध्यायीपठितां पूर्वपरेत्यादित्रिसूत्रीं पुनरुक्तिशङ्कां व्युदस्यन् व्याचष्टे–पूर्वपरा। `सर्वानामानी'ति`विभाषा जसी'ति चानुवर्तते। तदाह–एतेषामिति। पूर्वादिसप्तानामित्यर्थः। गण इति। सर्वादिगण इत्यर्थः। या प्राप्तेति। `सर्वादीनि'त्यनेन नित्या संज्ञाया प्राप्तेत्यर्थः। अनेन पूर्वपरेति सूत्रं गणपठितं जसोऽन्यत्र नित्यतया सर्वनामसंज्ञार्थम्। अष्टाध्यायीपठितं तु जसि तद्विकल्पार्थमिति न पौनरुक्त्यमिति सूचितम्। स्वाभिधेयेति। अपेक्ष्यत इत्यपेक्षः। कर्मणि घ??। स्वस्य=ततश्चनियमेनावधिसापेक्षार्थे वर्तमानानां पूर्वादिशब्दानां जसि सर्वनामसंज्ञाविकल्प इति फलति। व्यवस्थायां किमिति। पूर्वादिशब्दानां नियमेनावधिसापेक्ष एवार्थे विद्यमानत्वादिति प्रश्नः। दक्षिणा गाथका इति। अत्र दक्षिणशब्दो नावध्यपेक्ष इति भावः। दक्षिणपार्\उfffदावर्तिनो गाथका इत्यत्र कस्मादित्यवध्यपेक्षा अस्त्येवेत्यत आह–कुशला इत्यर्थ इति। यद्यपि प्रावीण्यमपि कस्मादित्यवध्यपेक्षमेव, तथापि `उत्तरे प्रत्युत्तरे च शक्त' इत्यादि प्रत्युदाहरणं बोध्यमित्याहुः। असंज्ञायां किमिति। `संज्ञोपसर्जनीभूतास्तु न सर्वादयः' इति वक्ष्यमाणतया संज्ञायां सर्वनामत्वस्याऽप्रसक्तेरिति प्रश्नः। उत्तराः कुरव इति। कुरुशब्दो दोशविशेषे नित्यं बहुवचनान्तः। सुमेरमवधीकृत्य तत्रोत्तरशब्दो वर्तत इत्यस्तीह व्यवस्था। किं तु संज्ञाशब्दत्वान्नास्य सर्वनामता। पूर्वादिशब्दानां तु दिक्षु अनादिस्सङ्केत इति न ते संज्ञाशब्दाः। कुरुष तूत्तरशब्दस्याधुनिकस्सङ्केत इति भवत्ययं संज्ञाशब्द इति मन्यते। केचित्त्वसंज्ञायामित्यस्या।ञभावे संज्ञायामेव पूर्वादिशब्दानामप्राप्तविभाषा स्यादित्याहुः।

तत्त्वबोधिनी

181 पूर्वपरावरेत्यादिना। स्वाभिधेयेति। स्वस्य पूर्वादिशब्दस्याऽभिधेयेनापेक्ष्यमाणस्यावधेर्नियम इत्यर्थः। अपेक्ष्यते इत्यपेक्षः। कर्मणि घञ्। कथं तर्हि `दिशः सपत्नी भव दक्षिणस्या' इति ?। अत्राहुः- अस्त्येवात्रापि व्यवस्था, प्रसिद्धत्वान्नावधिवाची शब्दः प्रयुज्यते। न च संज्ञात्वान्निषेधः। आधुनिकसङ्केतो हि संज्ञा, न च दिक्षु साऽस्तीति। `दिक्षु चिरन्तनः, कुरुष त्वाधुनिकः सङ्केत' इत्यत्र तु व्यख्यातृवचनमेव प्रमाणम्। एतेन `वि\उfffदोषां देवाना'मिति व्याख्यातम्, वेदे प्रसिद्धत्वाद्देवगणविशेषे वि\उfffदाशब्दस्याधुनिकसङ्केताऽभावात्। दक्षिणा गाथका इति। `गस्थक'निति शिल्पिनि थकन्। इहामुकस्मात्कुशला इत्यवध्यन्वयसंभवेऽपि तन्नियमो नास्तीति भावः। एवम`धरे ताम्बूलरागः, `उत्तरे प्रत्यत्तरे च शक्तः' इत्यपि प्रत्युदाहर्तव्यम्। उत्तराः कुरव इति। सुमेरुमवधिमपेक्ष्य कुरुषु उत्तरशब्दो वर्तते इत्यस्तीह व्यवस्था, किं त्वाधुनिकसङ्केतोऽयमित्याहुः।

Satishji's सूत्र-सूचिः

TBD.