Table of Contents

<<1-1-16 —- 1-1-18>>

1-1-17 उञः

प्रथमावृत्तिः

TBD.

काशिका

शाकल्यस्यैतौ अनार्षे इति वर्तते। उञः प्रगृह्यसंज्ञा भवति इतौ शाकल्यस्य आचार्यस्य मतेन। शाकल्यस्य इति विभाषार्थम्। उ इति, विति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

107 उञः। एकपदं सूत्रम्। शाकल्यस्य इतौ प्रगृह्रमिति चानुवर्तते। उ इति। ञिदुकारो निपातः। तस्येतिशब्दे परे शाकल्यमते प्रगृह्रसंज्ञा स्यादित्यर्थः। तदाह उञ इतौ वैति। पूर्वोक्तं=प्रगृह्रत्वमित्यर्थः। उ इति। वितीति। `निपात एका'जिति नित्यं प्राप्ते विकल्पोऽयम्। प्रगृह्रत्वपक्षे प्रकृतिभावे प्रथमं रूपम्। तदभावपक्षे यणादेशे द्वितीयं रूपम्।

तत्त्वबोधिनी

87 उञः। `निपात एका'जिति नित्यं प्राप्ते विभाषेयम्। साक्स्यस्येतौ प्रगृह्रमिति चात्रानुवरत्ते, इत्यत आह–इतौ वा प्रागुक्तमिति। इह `उञ ऊँ' इत्येकमेव सूत्रं योगविभागेन व्याख्यातम्। एकसूत्रत्वे तु उञ इतौ ऊँ शाक्लयस्येत्यर्थात् `ऊँइति ' इत्येव रूपं शाकल्यमते सिध्यति। अन्येषां तु मते नित्यं प्रगृह्र इति उ-इतीत्येव रूपं सिध्यति, `विती'ति रूपं तु न सिध्यत्येवेति ज्ञेयम्।

Satishji's सूत्र-सूचिः

TBD.