TBD.
उञः इति वर्तते। उञः इतावनार्षे ऊं इत्ययमादेशो भवति दीर्घो ऽनुनासिकश्च, शाक्ल्यस्य मतेन प्रगृह्यसंज्ञकश्च। शाकल्यस्य ग्रहणं विभाषाऽर्थम् इह अप्यनुवर्तते। तेन त्रीणि रूपाणि भवन्ति उ इति, विति, ऊं इति।
TBD.
–
108 ऊँ। इदमप्येकपदं सूत्रम्। ऊँ इति दीर्घस्याऽनुनासिकस्य ऊकारस्य लुप्तप्रथमाविभक्तिकस्य निर्देशः। उञ इत्यनुवर्तते, इतौ शाकल्यस्य प्रगृह्रमिति च। तदाह–उञ इताविति। ऊँ ईतीति। उक्तविधे ऊँकारादेशे रूपम्। प्रगृह्रत्वात्प्रकृतिभावः। एतदादेशाऽबावपक्षे पूर्वसूत्रेण प्रगृह्रत्वे सति `उ इती'ति रूपम्। प्रगृह्रत्वस्याप्यभावे सति यणादेशे `विती'ति रूपमिति त्रीणि रूपाणि फलितानि। तदेवमुञ ऊँ इत्येकमेव सूत्रं विभज्य व्याख्यातम्। एकसूत्रत्वे तु उञ इतौ परे `ऊँ' इत्ययं दीर्घोऽनुनासिकः प्रगृह्रश्चादेशः शाकल्यामते स्यात्। तदभावपक्षे तु `निपात एका'जिति नित्यं प्रगृह्रत्वमित्येतावल्लभ्येत। ततश्च `ऊँ इति ' `उ इती'ति रूपद्वयमेव स्यात्, `विती'ति रूपं न लभ्येत। अतो विभज्य व्याख्यातम्।
88 ऊँ। अनुनासिक इति। तेनास्मिन् परे `यरोऽनुनासिके-' इति विकल्पः `यदेतनूँ इति पठसि' `यदेतदूँ' इति वा। एतदर्थमेवात्रानुनासिकग्रहणम्। अन्यथा `यरोञम्यनुनासिको वे'त्येवावक्ष्यत्। `यरो ञमि ञम्वे'त्येवावक्ष्यदित्युक्तौ तु यथासङ्क्यप्रवृत्त्या `अम्मयं' `तन्ने'त्यादिसिद्धावपि `चिन्मयं' `एतन्मुरारि'रिति न सिध्येत्। `कृन्मेजन्तः' `ङमुण्नित्य'मित्यादिनिर्देशाश्रयणे तु प्रतिपत्तिगौरवम्। वस्तुस्तु `यरोऽनुनासिके ञम्वे'त्येव सूत्रयितुं युक्तमित्याहुः।
TBD.