TBD.
शे इत्येतत् प्रगृह्यसंज्ञं भवति। किमिदं शे इति? सुपाम् आदेशश् छन्दसि। न युष्मे वाजबन्धवः। अस्मे इन्द्राबृहस्पती। युष्मे इति। अस्मे इति। त्वे रायः। मे रायः। त्वे इति। मे इति। छान्दसम् एतदेवैकम् उदाहरणम् अस्मे इन्द्राबृहस्पती इति। तत्र तथा पाठात्। इतरत् तु लौकिकम् अनुकरणम् युश्मे इति, अस्मे इति, त्वे इति, मे इति।
TBD.
–
103 शे। एकपदं सूत्रम्। `प्रगृह्र'मित्यनुवर्तते। छन्दसीत्यनुवृत्तौ `सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड\उfffदायाजालः' इति विहितः `शे' इत्येकारान्त आदेशः प्रगृह्रः स्यादित्यर्थः। तदाह–अयमिति। `शे' आदेशे इत्यर्थः। अस्मे इति। अस्मभ्यमित्यर्थः। भ्यसः शे-आदेशः, `लशक्वतद्धिते' इति शकार इत्। `शेषे लोपः'। अस्मे इति रूपम्। अद्विवचनत्वादप्राप्तौ वचनम्। यद्यपि छान्दसमिदं बैदिकप्रक्रियायामेव निबन्ध्यं, तथापि `अस्मे इति' `त्वे इति' इत्याद्यवग्रहे लोकार्थत्वस्यापि सत्त्वादिह तन्निबन्धनम् , पदपाठस्याधुनिकत्वात्।
83 शे इति। छान्दसमपीदं सन्दर्भशुध्द्यर्थमुक्तामित्याहुः। अस्मे इति। अस्मभ्यमित्यर्थः। `सुपां सुलु'गिति भ्यसः शेआदेशः। `शेषे लोपः'।
TBD.