TBD.
प्र निरन्तर् शर इक्षु प्लक्ष आम्र कार्ष्य खदिर पीयूक्षा इत्येतेभ्यः उत्तरस्य वननकारस्य संज्ञायाम् असंज्ञायाम् अपि णकारादेशो भवति। प्र प्रवणे यष्टव्यम्। निर् निर्वणे प्रतिढीयते। अन्तर् अन्तर्वर्णे। शर शरवणम्। इक्षु इक्षुवणम्। प्लक्ष प्लक्षवणम्। आम्र आम्रवणम्। कार्ष्य कार्ष्यवणम्। खदिर खदिरवणम्। पीयूक्षा पीयूक्षावणम्।
TBD.
–
1035 प्रनिरन्तः। एभ्य इति। प्र, निर्, अन्तर्, शर, इक्षु, प्लक्ष, आम्र, काष्र्य, खदिर, पीयूक्षा-इत्येतेभ्य इत्यर्थः। वनस्येति। `वनं पुरगे'त्यतस्तदनुवृत्तेरिति भावः। प्रवणमिति। प्रकृष्टं वनमिति विग्रहः। प्रादिसमासः। इहेति। `काष्र्यवण'मित्यत्र षकारात्परत्वेन णत्वं, नतु रेफात् परत्वमादाय, अडादिभिन्नषकारेण व्यवधानादिति भावः। एतेन कार्श्येति तालव्यशकारमध्यपाठोऽप्रामाणिक इति सूचितम्। तथा सति निमित्ताऽभावाण्णत्वाऽसंभवात्, अटकुप्वाङ्भिन्नेन शकारेण व्यवहिततया रेफस्य तन्निमित्तत्वाऽसंभवात्। निर्वणम्, अन्तर्वणं, शरवणम्, इक्षुवणम्, प्लक्षवणम्, आम्रवणं, काष्र्यवणं, खदिरवणं, पीयूक्षावणम्।
–
TBD.