Table of Contents

<<8-3-72 —- 8-3-74>>

8-3-73 वेः स्कन्देरनिष्ठायाम्

प्रथमावृत्तिः

TBD.

काशिका

वेः उपसर्गादुत्तरस्य स्कन्देः सकारस्य मूर्धन्यो वा भवति अनिष्ठायाम्। विष्कन्ता, विस्कन्ता। विष्कन्तुम्, विस्कन्तुम्। विषन्तव्यम्, विस्कन्तव्यम्। अनिष्ठायाम् इति किम्? विस्कन्नः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

233 वेः स्कन्दे। शेषपूरणेन सूत्रं व्याचष्टे– षत्वं वा स्यादिति। `अपदान्तस्य मूर्धन्यः' इत्यधिकारात् `सिवादीनां वे'त्यतो वेत्यनुवृत्तेश्चेति भावः। वेः परस्य स्कन्देः सस्य षो वा स्यादनिष्ठायां परत इति फलितम्। ननु विस्कन्दतीत्यादौ कुतो न षत्वविकल्प इत्यत आह– कृत्येवेदमिति। पर्युदासस्य `अब्राहृणमानये'त्यादाविव सजातीयापेक्षत्वादिति भावः। विष्कन्त्ता विस्कन्त्तेति। तृचि रूपे। अषोपदेशत्वादप्राप्ते विभाषेयम्।

तत्त्वबोधिनी

204 वेः स्क्नदेरनिष्ठायाम्। `सिवादीना'मित्तो `वे'त्यनुवर्तते। अषोपदेशत्वादप्राप्ते विभाषेयम्। माधवादिग्रन्तानुरोधेनाह– कृत्येवेदमिति। प्राचा तु `विकन्दती'त्युदाह्मतं, तत्र मूलंमृग्यमिति भावः।

Satishji's सूत्र-सूचिः

TBD.