Table of Contents

<<8-3-66 —- 8-3-68>>

8-3-67 स्तन्भेः

प्रथमावृत्तिः

TBD.

काशिका

उपसर्गातिति वर्तते। स्तन्भेः सकारस्य उपसर्गस्थान् निमित्तातुत्तरस्य मूर्धन्य मुर्धन्य आदेशो भवति। अभिष्टभ्नाति। परिष्टभ्नाति। अभ्यष्टभ्नात्। पर्यष्टभ्नात्। अभितष्टम्भ। परितष्टम्भ। अप्रतेः इत्येतदिह न अनुवर्तते, तेन एतदपि भवति, प्रतिष्टभ्नाति, प्रयष्टभ्नात्, प्रतितष्टम्भ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

692 स्तन्भेः सौत्रस्य सस्य षः स्यात्. व्यष्टभत्. अस्तम्भीत्.. युञ् बन्धने.. 7.. युनाति, युनीते. योता.. क्नूञ् शब्दे.. 8.. क्नूनाति, क्नूनीते.. द्रूञ् हिंसायाम्.. 9.. द्रूणाति, द्रूणीते.. दॄ विदारणे.. 10.. दृणाति, दृणीते.. पूञ् पवने.. 11..

बालमनोरमा

116 स्तम्भेः। नकारोपधनिर्देशस्य प्रयोजनमाह– सौत्र्येति। `स्तन्भुस्तुन्भु'इति सूत्रनिर्दिष्टस्य नोपधस्येत्यर्थः। स हि प्रतिपदोक्तः। `ष्टभि प्रतिबन्धे' इत्यस्य तु धातोरिदित्त्वान्नुमि लाक्षणिकत्वान्न ग्रहणम्। तेन विस्तम्भत इत्यादौ न षत्वम्। `उदः स्थास्तम्भ्वो'रिति सूत्रे तु मोपधग्रहणादुभयोरपि ग्रहणं, मकारस्य उभयत्रापि लाक्षणिकत्वात्। ननु `सदिस्तन्भ्योरप्रते'रित्येकमेव सूत्रं कुतो न कृतमित्यत आह–योगविभाग उत्तरार्थ इति। `अवाच्चालम्बनाविदूर्ययो'रित्युत्तरसूत्रे सदेरननुवृत्त्यर्थ इत्यर्थः। ननु सदेरस्वरितत्वादालम्बनाविदूर्ययोर्वृत्त्यभावादेव च अनुवृत्त्यभावः सिद्ध इत्यस्वारस्यादाह– किंचेति। नानुवर्तत इति। स्तम्भेरित्यत्र अप्रतेरित्यस्य स्तन्भिनाऽपि संबन्धः स्यादिति भावः। `अप्रते'रित्यस्य स्तन्भावनन्वयो वृद्धिप्रयोगानुगत इत्याह— बाहुप्रतिष्टम्भेति।

तत्त्वबोधिनी

91 स्तम्भेः। सौत्रस्येति। `स्तन्भुस्तुन्भु' इति सूत्रे निर्दिष्टस्य रोधनार्थस्य, न तु `ष्टभि प्रतिबन्धे' इत्यस्येति भावः। एवं `जृ?स्तम्भु' इत्यङ्विधायकसूत्रेऽपि सौत्रस्यैव ग्रहणमिति बोध्यम्। एतच्च `लक्षणप्रतिपदोक्त' परिभाषया लभ्यते। सौत्रो हि धातुर्नकारोपध इति प्रतिपदोक्तः। इदित्त्वान्नुमि ष्टभिर्लाक्षणिकः। तेन विस्तम्भते मकारस्योभयत्रापि लाक्षणिकत्वात्। उत्तरार्थ इति। उत्तरसूत्रे स्तन्भेरेवानुवृत्त्यर्थ इति भावः। ननु `सदिस्तन्भ्यो'रिति सूत्रितेऽपि एकदेशे स्वरितत्वप्रतिज्ञानात्कथंचिदनुवृत्तिर्भविष्यतीत्यत आह- - किंचेति। नानुवर्तत इति. तथा च `स्तन्भे'रित्यत्राऽननुवृत्तये योगविभाग आवश्यक इति भावः।

Satishji's सूत्र-सूचिः

TBD.