TBD.
इकारोपधस्य उकारोपधस्य च अप्रत्ययस्य विसर्जनीयस्य षकार आदेशो भवति कुप्वोः परतः। निर्दुर्बहिराविश्चतुर्प्रादुस्। निस् निष्कृतम्। निष्पीतम्। दुस् दुष्कृतम्। दुष्पीतम्। वहिस् बहिष्कृतम्। बहिष्पीतम्। आविस् आविष्कृतम्। आविष्पीतम्। चतुर् चतुष्कृतम्। चतुष्कपालम्। चतुष्कलम्। चतुष्कण्टकम्। प्रादुस् प्रादुष्कृतम्। प्राउद्ष्पीतम्। अप्रत्ययस्य इति किम्? अग्निः करोति। वायुः करोति। मातुः करोति, पितुः करोति, अत्र रात् सस्य 8-2-24 इति सकारलोपे कृते रेफस्य यो विसर्जनीयः, तस्य अप्रत्ययविसर्जनीयत्वात् षत्वं प्राप्नोति? कस्कादिषु तु म्रातुष्पुत्रग्रहणं ज्ञापकम् एकादेशनिमित्तत्वात् षत्वप्रतिषेधस्य। पुम्मुहुसोः प्रतिषेधो वक्तव्यः। पुंस्कामा। मुहु\उ1ए96 कामा। नैष्कुल्यम्। दौष्कुल्यम्। दौष्पुरुष्यम्। नि3ष्कुलम्। दु3ष्कुलम्। दु3ष्पुरुषः। बहिरङ्गलक्षणयोर् वृद्धिप्लुतयोरसिद्धत्वात् षत्वं प्रवर्तते।
TBD.
–
–
126 इदुदुपधस्य। इदुदिति किम् ?, गीः करोति। पूः करोति। इह `इदुतौ उपधे यस्य समुदायस्य तस्यावयवो यो विसर्ग' इति वैयधिकरण्येन सम्बन्धः। `अप्रत्ययस्ये'ति तु `अप्रत्ययो यो विसर्ग' इति सम्बध्यते। सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्याऽन्याय्यत्वात्। न च विसर्गस्य प्रत्ययत्वमप्रसिद्धमिति वाच्यम्, `अग्निः करोती'त्यादौ स्थानिवद्भावेन तत्प्रसिद्धेः। न चातिदेशं प्रति त्रिपाद्या असिद्धत्वं शङ्क्यम्, `अप्रत्ययस्ये'ति निषेधेनैव सिद्धतिवज्ञापनात्। अतएव `अग्नि'रित्यादौ रोर्विसर्गः सिध्यति। अन्यथाऽपदान्तत्वान्न स्यात्। विसर्गविधिस्तु `पुन'रित्यादौ चरितार्थः। ज्ञापकं च विशेषापेक्षम्। तेन `अचः परिस्मिन्-' इति त्रापाद्यां न प्रवर्तते। एवं च `पूर्वत्रासिद्धीये न स्थानिव'दिति सिद्धान्त उक्तयुक्तिमूलको न तु वाचनिक इति मनोरमायां स्थितम्। \र्\नत्र वदन्ति-`अप्रत्ययस्ये'त्यत्र प्रत्ययस्य यो विसर्जनीयो न भवतीत्याद्यर्थ एव आकारे स्थित इति `अप्रत्ययो यो विसर्ग' इति सामानाधिकरण्येनान्वयो न युक्तः। `सर्पिष्करोती'त्यत्र `इसुसोः सामर्थ्ये' इति वैकल्पिकशत्वप्रवृत्तावपि `तिष्ठतु सर्पिः पिबत्वमुदक'मित्यत्र `इदुदुपधस्ये'त्यनेन नित्यं षत्वप्रसङ्गात्। न चाकरमतेऽप्युणाअदीनामव्युत्पत्त्याश्रयणे तथा स्वीकारादिष्टापत्तिरिति वाच्यम्, व्युत्पत्त्याश्रयणे दोषतादवस्थ्यात्। `इसुसो'रित्यत्र `सर्पिष्करोती'त्युदाहरणेन व्युत्पत्तिपक्षस्यैव वार्तिककारेण स्वीकृतत्वानुमानात्। अन्यथा `इदुदुपधस्ये'त्यनेनैव व्युत्पत्त्यव्युत्पत्तिपक्षभेदेन षत्वविकल्पसिद्धेस्तदुदाहरणस्याऽसङ्गतिप्रसङ्गात्। किंच `तिष्ठतु सर्पि'रित्यादौ `इदुदुपधस्ये'ति षत्वस्येष्टत्वे-`कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे व्यपेक्षाविरहेऽपि षत्वार्थः'-इति स्वमूलग्रन्थविरोध इति। अत्र केचित्, `इदुभ्द्यामप्रत्ययस्ये'ति वक्तव्ये `इदुदुपधस्ये'तिग्रहणं नित्यं य #इदुदुपधस्तस्यैव विसर्गस्य षत्वं यथा स्यात्, `कविभिः कृत'मित्यादौ मा भूदित्येवमर्थम्। भिसो विसर्गस्य हि नित्यमिदुदुपधत्वं नास्ति' `रामै'रित्यादौ तदभावादिति, तन्न; `अग्निः करोती'ति निषेधादाहारणस्याऽसाङ्गत्यापत्तेः। `देव' इत्यादावकारोपधत्वात्। `प्रियचत्वा' इत्यादावाकारोपधत्वेन `चतुष्कपाल' इत्यादौ षत्वानापत्तेश्चेति यत्किञ्चिदेतत्। अन्ये तु-`प्रत्ययस्य यो विसर्जनीयो न भवती'त्यादिव्याख्याने तूक्तोदाहरणे षत्वस्याऽप्रवृत्तेरुपधस्येत्येतत्सुत्यजमित्याहुः। स्यादेतत्। `अप्रत्ययग्रहणमेव- -स्थानिवत्सूत्रं प्रति त्रिपादी सिद्धेत्यत्र ज्ञापक'मित्युक्तम्। तदिदं वैयधिकरण्येनान्वयमभ्युपगच्छतां न सिध्येत्। अत्राहुः–`न मु ने' इत्यत्र `ने'ति योगं विभज्य `स्थानिवत्सूत्रं प्रति त्रिपादी नासिद्धे'ति व्याख्यायते। `प्रत्ययः', परश्चे'त्यादिनिर्देशाश्चेहानुकूलाः। योगविभागस्येष्टसिद्ध्यर्थत्वात। `अचः परस्मिन्–' इति सूत्रं प्रति त्वसिद्धैव। ततश्च `पूर्वत्रासिद्धे न स्थानिव'दिति सिद्धान्तो युक्तिमूलक इत्यादि सर्वं सङ्गच्छत इति। `अप्रत्ययो यो विसर्ग' इति सामानाधिकरण्यपक्षे `मातुः कृपे'त्यादौ `इदुदुपधस्ये'ति षत्वमाशङ्क्याह–एकादेशशास्त्रनिमित्त कस्येति। `मातु'रित्यत्र हि `ऋत उत्' इति एकादेशशास्त्रं विसर्गं प्रति परम्परया प्रयोजकम्। आकरे तु `एकादेशनिमित्ता'दिति प्रचुरः पाठः। तत्र एकादेशः–एकादेशशास्त्रं, तन्निमित्तं यस्य उकारस्य तस्मादित्यर्थः। नन्वेवम् `अप्रत्ययस्ये'त्यत्र सामानाधिकरण्यपक्षोऽप्याकरसंमत इति चेदत्राहुः, `प्रत्येकं संयोगसंज्ञे'ति पक्ष आकरसंमतोऽपि यथा निष्प्रयोजनस्तथायमपि। वैयधिकरण्यपक्षस्त्वावश्यक-एव। अन्यथा `तिष्ठतु सर्पिः पिब त्वमुदक'मित्याद्यसिध्द्यापत्तेरितिं। भ्रातुष्पुत्रशब्दस्य पाठादिति। नच `षत्वतुकोरसिद्धः' इत्येकादेशशास्त्रस्याऽसिद्धत्वात्षत्वाऽप्राप्तौ विध्यर्थ एव तत्र पाठो न ज्ञापनार्थं इति वाच्यम्, `षत्वे तुकि चंकर्तव्ये पदान्तपदाद्योः सतोरेवैकादेशोऽसिद्ध' इति सिद्धान्तात्। अन्यथा `शकहूष्वि'त्यत्रापि षत्वं न स्यात्। शकान् ह्वयन्तीत्यत्र `आदेच उपदेशे' इत्यात्वे क्विपि संप्रसारणे कृते `संप्रसारणाच्चे'ति पूर्वरूपैकादेशे च `हलः'इति दीर्घः। भवति हि `कोऽसिचत्' `सोऽसिच'दित्यादौ पदान्तपदाद्योरादेशः। तेन तत्र षत्वनिषेधः सिध्यति, न तु `शकहूष्वि'त्यत्र। एवं च `भ्रातुष्पुत्र' इत्यत्रापि `षत्वतुको'रित्येकादेशशास्त्रमसिद्धं न भवतीत्युक्तं न ज्ञापकं सुस्थमेव। ननूक्तज्ञापकात् `शकहूष्वि'त्यत्रापि `मातुः कृपे'त्यत्रेव षत्वं न स्यात्। मैवम्। तुल्यजातीयस्य ज्ञापकत्वात्। कश्च तुल्यजातीयः, यः कुप्वोरिति दिक्।
वृत्तिः इकारोकारोपधस्याप्रत्ययस्य विसर्गस्य ष: स्यात्कुप्वो: । When followed by a consonant belonging to क-वर्गः or प-वर्गः, a विसर्गः is replaced by ‘ष्’ provided the विसर्गः belongs to a term which is (i) not an affix and (ii) has ‘इ’ or ‘उ’ as its penultimate letter.
Note: निर्दुर्बहिराविश्चतुर्प्रादुस् । This सूत्रम् applies only in the case of a विसर्ग: which belongs to one of the following terms – ‘दुर्’/'दुस्’, ‘निर्’/'निस्’, ‘बहिस्’, ‘आविस्’, ‘चतुर्’ or ‘प्रादुस्’।
Example continued from 3-3-126
दु: + प्राप
= दुष्प्राप 8-3-41
अप्रत्ययस्य किम्? अग्नि: करोति।