Table of Contents

<<8-3-9 —- 8-3-11>>

8-3-10 नॄन् पे

प्रथमावृत्तिः

TBD.

काशिका

नॄनित्येतस्य नकारस्य रुर्भवति पशब्दे परतः। अकारः उच्चारणार्थः। नॄँः पाहि, नॄंः पाहि। नॄँः प्रीणीहि, नॄंः प्रीणीहि। पे इति किम्? नॄन् भोजयति। उभयथा इत्यपि केचिदनुवर्तयन्ति नॄन् पाहि इत्यपि यथा स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

97 नॄनित्यस्य रुर्वा पे..

बालमनोरमा

140 नृ?न्पे। `नृ?न्' इति द्वितीयान्तशब्दस्वरूपपरं षष्ठ\उfffद्न्तम्। षष्ठ्याः सौत्रौ लुक्। नलोपाऽभावोऽपि सौत्र एव। `मतुवसो रु' इत्यतो `रु' इत्यनुवर्तते। `उभयथर्क्ष्वि'त्यतं `उभयथे'त्यनुवर्तते। कदाचिद्भवति कदाचिन्न भवतीत्येवमुभयथा रुः प्रत्येतव्य इत्यर्थः। विकल्प इति यावत्। तदाह-नृ?नित्यस्येत्यादिना। `अलोऽन्त्यस्य'। नृ?न्-पाहीति स्थिते नस्य रुत्वम्। अनुनासिकानुस्वारविकल्पः'।

तत्त्वबोधिनी

114 नृ?न्पे। पकारोपरि अकार उच्चारणार्थः। तेन `नृ?#ः पुनाती'त्यादि सिद्धम्। `उभयथक्र्षु' इत्यत `उभयथे'नुवृत्तेर्विकल्पः फलित इत्याशयेनाह-रुः स्याद्वेति। कुप्वो क। अत्र `कुप्वो'रिति रेफस्य विसर्गः, जिह्वामूलीयस्य खत्र्वात्। `खर्परे शरी'ति विसर्गस्यास्य लोपः, जिह्वामूलीयस्य शत्र्वात्। `वा शरी'ति विसर्गस्य विसर्ग एव वा। आदेशयोः कपावुच्चारणार्थौ। चाद्विसर्ग इति। प्राचा तु `चाद्विकल्पः' इत्युक्तं , तदसत्। कपाभ्यां मुक्ते विसर्जनीयस्य सत्वप्रसङ्गात्।

Satishji's सूत्र-सूचिः

TBD.