TBD.
आसन्दीवतष्ठीवत् चक्रीवत् कक्षीवत् चर्मण्वती इत्येतानि संज्ञायां निपात्यन्ते। वत्त्वं पूर्वेण एव सिद्धम्, आदेशाथानि निपातनानि। आसन्दीवतिति आसनशब्दस्य आसन्दीभावो निपात्यते। आसन्दीवान् ग्रामः। आसन्दीवदहिस्थलम्। आसनवानित्येव अन्यत्र। अपरे तु आहुः, आसन्दीशब्दो ऽपि प्रकृत्यन्तरम् एव अस्ति, तथा चोक्तम्, औदुम्बरी राजासन्दी भवति इति। तस्य संज्ञायाम् 8-2-11 इति वत्त्वेन सिद्धम्। आसन्दीवतित्येत प्रपञ्चार्थम् इह पठ्यते। अष्ठीवतिति अस्थ्नो ऽष्ठीभावः। अष्ठीवानिति शरीरैकदेशसंज्ञा। अस्थिमानित्येव अन्यत्र। चक्रीवतिति चक्रशब्दस्य चक्रीभावो निपात्यते। चक्रीवान् राजा। चक्रवानित्येव अन्यत्र। चक्रीवन्ति सदो हविर्धानानि भवन्ति इत्येतत् तु छान्दसत्वादनुगन्तव्यम्। कक्षीवतिति कक्ष्यायाः सम्प्रसारणं निपात्यते। कक्षीवान् नाम ऋषिः। कक्ष्यावानित्येव अन्यत्र। रुमण्वतिति लवणशब्दस्य रुमण्भावो निपात्यते। लवणवानित्येव अन्यत्र। अपरे तु आहुः, रुमनिति प्रकृत्यन्तरम् अस्ति, तस्य एतन् निपातनं नकारलोपाभावार्थम्, णत्वार्थं च। मतोर् वा नुडर्थम् इति। चर्मण्वती इति चर्मणो नलोपाभावो णत्वं च निपात्यते। मतोर् वा नुडागमः। चर्मण्वती नाम नदी। चर्मवती इत्येव अन्यत्र।
TBD.
–
1875 आसन्दीवत्। समाहारद्वन्द्वे ह्यस्वत्वम्। निपात्यन्त इति। आसन्दीभावादिकमेवात्र निपात्यते, वत्वं तु संज्ञायामिति सिद्धम्। कक्ष्यायाः सम्प्रसारणमिति। `निपात्यते' इति शेषः। `न सम्प्रसारणे' इति सूत्रभाष्ये तु `कक्ष्यायाः संज्ञायां मतौ सम्प्रसारणं वक्तव्य'मित्यारब्धम्। अतोऽत्र सूत्रे कक्षीवच्छब्दपाठोऽनार्ष इत्याहुः।
–
TBD.