Table of Contents

<<8-1-55 —- 8-1-57>>

8-1-56 यद्धितुपरं छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

आमन्त्रितम् इत्येतदस्वरितत्वान् नानुवर्तते। तिङिति वर्तते एव। यत्परं, हिपरं, तुपरं च तिङन्तं छन्दसि नानुदात्तं भवति। यत्परं तावत् गवां गोत्रमुदसृजो यदङ्गिरः। हिपरम् इन्दवो वामुशन्ति हि तुपरम् आख्यास्यामि तु ते। निपातैर् यद्यदिहन्त इति, हि च 8-1-34 इति, तुपश्यपश्यताहैः इति च निघातप्रतिषेधे सिद्धे वचनम् इदं नियमार्थम्, एभिरेव परैर्योगे प्रतिषेधो भवति, नान्यैः इति। इह न भवति, जाये स्वो रोहावैहि। एहि इत्यनेन गत्यर्थलोटा युक्तस्य रोहाव इत्यस्य लोडन्तस्य हिघातो भवत्येव।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.