Table of Contents

<<7-4-88 —- 7-4-90>>

7-4-89 ति च

प्रथमावृत्तिः

TBD.

काशिका

तकारादौ प्रत्यये परतः चरफलोः अकारस्य उकारादेशो भवति चरणं चूर्तिः। ब्रह्मणः चूर्तिः। प्रफुल्तिः। प्रफुल्ताः सुमनसः। यङ्यङ्लुकोः, अभ्यासस्य इति च अनुवर्तमानम् अपि वचनसामर्थ्यादिह न अभिसम्बध्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

691 निवृत्त्यर्थमित्युपलक्षणम्। फुल्लवानिति रूपस्य, `निष्ठा च द्व्यजना'दित्याद्युदात्तस्य च सिद्ध्यर्थमिति बोध्यम्।\त् उत्फुल्लसंफुल्लयोरुपसङख्यानम्। उत्फुल्लसंफुल्लयोरिति। यद्यपि प्रफुल्ल इतिवत् फुल्लेः पचाद्यचा सिद्धं, तथापि उत्फुस्तः, संफुस्त इति प्रयोगानिवृत्त्यर्थं वचनम्।

Satishji's सूत्र-सूचिः

TBD.