Table of Contents

<<7-3-90 —- 7-3-92>>

7-3-91 गुणो ऽपृक्तो

प्रथमावृत्तिः

TBD.

काशिका

ऊर्णोतेर् धातोः अपृक्ते हलि पिति सार्वधातुके गुणो भवति। प्रोर्णोत्। प्रोर्णोः। हलि इति वर्तमाने यदपृक्तग्रहणं क्रियते, तेन एव ज्ञाप्यते भवत्येषा परिभाषा यस्मिन् विधिस् तदादावल्ग्रहणे इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

605 ऊर्णोतेर्गुणोऽपृक्ते हलादौ पिति सार्वधातुके. वृद्ध्यपवादः. और्णोतु. और्णोः. ऊर्णुयात्. ऊर्णुयाः. ऊर्णुवीत. ऊर्णूयात्. ऊर्णुविषीष्ट, ऊर्णविषीष्ट..

बालमनोरमा

279 गुणोऽपृक्ते। `ऊर्णोतेविभाषे'त्यत ऊर्णोतेरिति, `नाभ्यस्तस्ये'त्यतः पिति सार्वधातुके इति, `उतो वृद्धि'रित्यतो हलीति चानुवर्तते। तदाह– ऊर्णोतेरित्यादि। वृद्ध्यपवाद इति। `ऊर्णोतेर्विभाषे'ति वृद्धिविकल्पस्यापवाद इत्यर्थः। ऊर्णुयादित्यत्र `विभाषोर्णो'रिति वृद्धिविकल्पमाशङ्क्याह– इह वृद्धिर्नेति। भाष्यादिति। तथा च यासुटो ङित्त्वेन पित्त्वाऽभावान्न वृद्धिविकल्प इति भावः। नचैवं सति गुणनिषेधोऽपि न स्यादिति शङ्क्यं, विशेषविहितेन यासुटो ङित्त्वेन `ङिच्च पिन्ने'ति पित्त्वप्रयुक्तङित्त्वनिषेधस्य बाध इति `यु मिश्रणे' इति धातावेवोक्तत्वादिति भावः। परस्मैपदे आशीर्लिङ्याह– ऊर्णूयादिति। `अकृत्सार्वधातुकयो'रिति दीर्घः। ऊर्णूयास्तामित्यादि। आत्मनेपदे लिड\उfffदाह- - ऊर्णविषीष्ट ऊर्णुविषीष्टेति। `विभाषोर्णो'रिति ङित्त्वविकल्प इति भावः। लुङि परस्मैपदे और्णु–ईदिति स्थिते `विभाषोर्णो'रिति ङित्त्वपक्षे गुणाऽभावे उवङि रूपमाह– और्णुवीदिति। ङित्त्वाऽभावपक्षे गुणे नित्यं प्राप्ते।

तत्त्वबोधिनी

244 गुणोऽपृक्ते। `नाभ्यस्तस्याची'त्यतः `पिति सार्वधातुके' इति, `उतो वृद्धिर्लुकि हली' त्यतो हलीति चानुवर्तते। तदाह— हलादावित्यादि।

Satishji's सूत्र-सूचिः

TBD.