Table of Contents

<<7-2-71 —- 7-2-73>>

7-2-72 स्तुसुधूञ्भ्यः परस्मैपदेषु

प्रथमावृत्तिः

TBD.

काशिका

स्तु सु धूञित्येतेभ्यः सिचि परसमिपदे परत इडागमो भवति। अस्तावीत्। असावीत्। अधावीत्। परस्मैपदेषु इति किम्? अस्तोष्ट। असोष्ट। अधोष्ट, अधविष्ट।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

649 एभ्यस्सिच इट् स्यात्परस्मैपदेषु. असावीत्, असोष्ट.. चिञ् चयने.. 2.. चिनोति, चिनुते..

बालमनोरमा

222 लुङि असौषीदिति प्राप्ते–स्तुसुधूञ्भ्यः। `इडत्त्यर्ती'त्यत इडित्यनुवर्तते। `अञ्जेः सिची'त्यतः सिचीत्यनुवृत्तं षष्ठ\उfffदा विपरिणम्यते। तदाह– एभ्यः सिच इति। असावीदिति। सिचि वृद्दौ `इट ईटी'ति सिज्लोपः। पूर्वोत्तराभ्यामिति। स्तुञ्धूञ्भ्यामिभ्यर्थः। सुनोतिरिति। `षुञ् अभिषवे' इति श्नुविकरणस्येत्यर्थः। असौषीदिति। इडभावे `सिचि वृद्धि'रिति भावः। असोष्यत्। श्रु श्रवणे इति। उदन्तोऽयमनिट्।

तत्त्वबोधिनी

194 स्तुसुधूञ्भ्यः। परस्मैपदेषु किम् ?। अतोष्ट। अधोष्ट।

Satishji's सूत्र-सूचिः

TBD.