Table of Contents

<<7-2-46 —- 7-2-48>>

7-2-47 इण् निष्ठायाम्

प्रथमावृत्तिः

TBD.

काशिका

निरः कुषो निष्ठायाम् इडागमो भवति। निष्कुषितः। निष्कुषितवान्। इङ्ग्रहणं नित्यार्थम्। आरम्भो हि यस्य निभाषा 7-2-15 इत्यस्य बाधकः, अन्यथा हि निकल्पार्थ एव स्यात्। अत्र एव नित्यम् इडागमः, उत्तरत्र विकल्प एव इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

852 इण्निष्ठायाम्। `निरः कुषः' इति सूत्रमनुवर्तते। तदाह– निर इति. ननु `आद्र्धधातुकस्ये'डित्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह– यस्येति। कुषधातोस्तृजादौ `निरः कुषः' इति पूर्वसूत्रेण वेट्कत्वात् `यस्य विभाषे'ति प्राप्तस्येण्निषेधस्य बाधनार्थं पुनरिह विधानमित्यर्थः। इडित्यनुवत्र्तमाने पुनरिड्ग्रहणं तु `स्वरतिसूती'त्यतो वाग्रहणानुवृत्तिनिवृत्तये।

तत्त्वबोधिनी

698 यस्येति। `निरः कुषः' इति विकल्पितेट्?त्वादिति भावः।

Satishji's सूत्र-सूचिः

TBD.