TBD.
लोमसु वर्तमानस्य हृषेर् निष्ठायां वा इडागमो न भवति। हृष्टानि लोमानि, हृषितानि लोमानि। हृष्टं लोमभिः, हृषितं लोमभिः। हृष्टाः केशाः, हृषिताः केशाः। हृष्टं केशैः हृषितं केशैः। हृषु अलीके इत्युदित्त्वान् निष्ठायामनिट्, हृष तुष्टौ इत्ययं सेट्, तयोरुभयोरिह ग्रहणम् इत्युभयत्र विभाषा इयम्। लोमानि मूर्धजानि अङ्गजानि च सामान्येन गृह्यन्ते, यथा लोमनखं स्पृष्ट्वा शौचं कर्तव्यम् इति। तद्विषये च हर्षे वर्तमानो लोमसु वर्तते इत्युच्यते। लोमसु इति किम्? हृष्टो देवदत्त इत्यलीकार्थस्य, हृषितो देवदत्तः इति तुष्ट्यर्थस्य। विस्मितप्रतिघातयोश्च इति वक्तव्यम्। हृष्टो देवदत्तः, हृसितो देवदत्तः। विस्मितः इत्यर्थः। हृष्टाः दन्ताः, हृषिताः दन्ताः। प्रतिहताः इत्यर्थः।
TBD.
–
877 ह्मषेर्लोमसु। लोमसु कर्तृष्विति बोध्यम्। इदं च `अजर्य'मिति सूत्रे भाष्ये स्पष्टम्। ह्मष्टं ह्मषितं लोमेति। `गत्यर्थाऽकर्मके'ति कर्तरि क्तः। रोमाञ्चितभूतमित्यर्थः। विस्मितप्रतिघातयोश्चेति। वार्तिकमिदम्। `ह्मषेर्निष्ठाया इड्वे'ति शेषः। उदित्त्वादिति। `उदितो वे'ति क्त्वायां वेट्कत्वात् `यस्य विभाषे'ति निष्ठायां नेडित्यर्थः। तथा अलीकेऽर्थे ह्मष्ट इत्येव। मृषोक्तवानित्यर्थः। इडिति। `ह्मष तुष्टौ' इति धातोः क्ते इडेव भवतीत्यर्थः। ह्मषितः। तुष्ट इत्यर्थः। विस्मितप्रतिघातयोस्तु धातूनामनेकार्थत्वाद्वृत्तिः। तत्र लोमसु, विस्मितप्रतिघातयोश्च `ह्मषु अलीके' इत्यस्मात्। `यस्य विभाषेटति नित्यमिण्निषेधे प्राप्ते विभाषेयम्। `ह्मष तुष्टौ' इत्यस्मात्तु नित्यमिट्प्राप्तौ विभाषेति विवेकः।
721 ह्मषेः। ह्मषु अलीके। उदित्तवन्निष्ठायामनिट्, ह्मष तुष्टौ सेट्, उभयोरपि ग्रहणमित्युभयत्र विभाषेयम्।
TBD.