Table of Contents

<<6-4-102 —- 6-4-104>>

6-4-103 अङितश् च

प्रथमावृत्तिः

TBD.

काशिका

अङितश्च हेर्धिरादेशो भवति। वा छन्दसि इति पित्वेनास्य अङित्त्वम्। सोमं रारन्द्ः। असमभ्यं तद्धर्यश्व प्रयन्धि। युयोध्यस्मज्जुहुराणमेनः। अङितः इति किम्? ह्वयं प्रीणीहि। रारन्धि इति रमेर्व्यत्ययेन परस्मैपदम् , शपः श्लु, अभ्यासदीर्घत्वं छान्दसत्वात्। मलोपाभावस् तु अङित्त्वादेव। प्रयन्धि इति यमेः शपो लुक्। युयोधि इति यौतेः शपः श्लुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

शसि विशेषमाह–पादः पत्। भस्य अङ्गस्येति चाधिकृतं प भस्य अङ्गस्येति चाधिकृतं पाद इत्यनेन विशेष्यते। तदन्तविधिः। तदाह– पाच्छब्दान्तमिति। पाच्छब्दस्येति। पाच्छब्दान्तस्य विधीयमानो।ञपि पदादेशः `निर्दिश्यमानस्यादेशा भवन्ती'ति पाच्छब्दस्यैव सर्वादेशो भवति, न तु तदन्तस्येति भावः। इत्यादीति। सुपदे। सुपदः। सुपदः। सुपदोः 2। सुपदि। इति दान्ताः। अथथान्ताः। अग्निमदिति। `मन्थ विलोडने' इति भ्वादौ। `मन्थ विलोडने' इति क्यादौ। उभाभ्यामपि क्विपि `अनिदिता'मिनि नलोपे अग्निमथिति रूपम्। ततः सुबुत्पत्तिः। सौ जश्त्वचर्त्वे इति भावः। भ्यामादौ जश्त्वेन थस्य दः। अग्निमद्भ्यामित्यादि। सुपि `खरि चे'ति चत्र्वम्, अग्निमत्सु। `मथे विलोडने' इत्यस्याप्येतदेव रूपम्। `मथिहिंसासंक्लेशनयोः' इति इदितस्तु नलोपाऽभावात् अग्निमन् अग्निमन्थावित्यादि। इति थान्ताः। अथ चान्ताः। ऋत्विगित्यादिसूत्रेणेति। प्र-अञ्चतीत्यर्थे `अञ्चु गतिपूजनयोः' इति गत्यर्थकाद्धातोर्नोपधात्क्विन्नित्यर्थः। पूजार्थस्य त्वग्रे वक्ष्यते। क्विनि `हलन्त्य'मिति नकार इत्। इकार उच्चारणार्थः। `लशक्वतद्धिते' इति ककार इत्। `वेरपृक्तस्ये'ति वकारलोपः।

तत्त्वबोधिनी

366 पादऋ पत्। तदवयवस्येति। एतच्च `निर्दिस्यमानस्यादेशा भवन्ती'ति परिभाषया लभ्यते। इयं च परिभाषा `षष्ठीस्थानेयोगे'त्यनेन ज्ञापिता। तथाहि `अस्तेर्भूः'`इको यणची'-त्यादौ सामीप्यादिसम्बन्धप्रसङ्गे[।पि]लक्ष्यानुरोधेन व्याख्यानादन्करङ्गत्वात् `स्थानिवदादेशः'इति ज्ञापकाच्च स्थानेयोगत्वे सिद्धेऽप्यारभ्यमाणेन `षष्ठीस्थानेयोगे'त्यनेन षष्ठ\उfffद्न्कतमुच्चार्यमाणमेव स्थानेन युज्यते न तु प्रतीयमानमित्यर्थो लभ्यते। तथाच `निर्दिश्यमानस्यादेशा भवन्ती'ति सिद्धम्। `अलोऽन्त्यस्य'`आदेः परस्ये'ति योगौ त्वारम्भसामथ्र्यान्निर्दिश्यमानपरिभाषाया बाधकौ, तेन `पुमः खय्यम्परे'`उदः स्थास्तम्भो'रित्यादौ न दोष इति दिक्॥ इति दान्ताः। अग्निमदिति। मथ्नातेर्मन्थतेश्च क्विपि एतदेव रूपम्। इदितस्तु न नलोपाभावादिग्निमन्थौ। अग्निमन्थः॥ इति थान्ताः।

Satishji's सूत्र-सूचिः

TBD.