Table of Contents

<<6-3-14 —- 6-3-16>>

6-3-15 प्रावृट्शरत्कालदिवां जे

प्रथमावृत्तिः

TBD.

काशिका

प्रावृट् शरत् काल दिवित्येतेषां जे उत्तरपदे सप्तम्याः अलुक् भवति। प्रावृषिजः। शरदिजः। शरदिजः। कालेजः। दिविजः। पूर्वस्य एव अयं प्रपञ्चः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

958 प्रावृट्शरत्। प्रावृट्, शरत्, काल, दिव्-एषां सम्या अलुक् स्याज्ज शब्दे परे संज्ञायामित्यर्थः। ननु `हलदन्ता'दित्येव सिद्धे किमर्थमिदमित्यत आह– पूर्वस्यैवायं प्रपञ्च इति। विस्तर इत्यर्थः।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.