Table of Contents

<<6-3-127 —- 6-3-129>>

6-3-128 विश्वस्य वसुराटोः

प्रथमावृत्तिः

TBD.

काशिका

विश्वशब्दस्य वसु राटित्येतयोः उत्तरपदयोः दिर्घ आदेशो भवति। विश्वावसुः। विश्वाराट्। राटिति विकारनिर्देशो यत्र अस्य एतद् रूपं तत्र एव यथा स्यात्। इह न भवति, विश्वराजौ। विश्वराजः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

310 विश्वशब्दस्य दीर्घोऽन्तादेशः स्याद्सौ राट्शब्दे च परे. विश्वराट्, विश्वराड्. विश्वराजौ. विश्वराड्भ्याम्..

बालमनोरमा

तस्य विशेषमाह–वि\उfffदास्य वसु। `ढ्रलोपे' इत्यतो `दीर्घ इत्यनुवर्तते। तदाह– वि\उfffदाशब्दस्येति। वि\उfffदावस्विति। `वसुग्र्रहेऽग्नौ योक्?त्रेंऽशौ वसु तोये धने मणौ' इति कोशः। `वि\उfffदाआवसु'रित्युदाहरणं प्रासङ्गिकम्। `आदित्यावि\उfffदावसवः' इत्यमरप्रयोगे तु न दीर्घः, `नरे संज्ञाया'मित्यतः संज्ञाग्राहणापकर्षात्। ननु राट्शब्दस्य कृतचत्र्वस्य निर्देशाज्जश्त्वे सति दीर्घो न स्यादित्यत आह–राडिति अविवक्षितमिति। व्याख्यानादिति भावः। वि\उfffदाआराट् वि\उfffदाआराडिति। `व्रश्चे'ति षत्वम्। जश्त्वचर्त्वे। चत्र्वनिर्देशस्य पदान्तोपलक्षणत्वाज्जश्त्वपक्षेऽपि दीर्घः द्यपि त्रैपादिकं `व्रश्चे'ति षत्वं `चोः कु'रिति कुत्वात्परम्, तथापि चवर्गान्तव्रश्चादिविषये षत्वमपवादत्वान्नासिद्धम्, `अपवादो वचनप्रामाण्यात्' इति वि\उfffदाराजाविति। अपदान्तत्वान्न दीर्घ इति भावः। `भ्रस्ज पाके'क्विप्। `ग्राहिज्या' इति संप्रसारणं रेफस्य ऋकारः। `संप्रसारणाच्चे'ति पूर्वरूपम्। भृस्ज्शब्दः। ततः सुबुत्पत्तिः।

तत्त्वबोधिनी

339 वि\उfffदास्य वसु। `ढ्?रलोपे'इत्यतोऽनुवर्तनादाह—वि\उfffदाशब्दस्य दार्घः स्यादिति।

Satishji's सूत्र-सूचिः

TBD.