Table of Contents

<<6-3-11 —- 6-3-13>>

6-3-12 अमूर्धमस्तकात् स्वाङ्गादकामे

प्रथमावृत्तिः

TBD.

काशिका

मूर्धमस्तकवर्जितात् स्वाङ्गादुत्तरस्याः सप्तम्याः अकामे उत्तरपदे ऽलुग् भवति। कण्ठे कालो ऽस्य कण्ठेकालः। उरसिलोमा। उदरेमणिः। अमूर्धमस्तकातिति किम्? मूर्धशिखः। मस्तकशिखः। अकामे इति किम्? मुखे कामो ऽस्य मुखकामः। स्वाङ्गातिति किम्? अक्षशौण्डः। हलदन्तातित्येव, अङ्गुलित्राणः। जङ्घावलिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

955 अमूर्धमस्तकात्। मूर्धंमस्तकशब्दवर्जितात्स्वाङ्गवाचकात्सप्तम्या अलुक्स्यात्, नतु कामशब्दे उत्तरपदे इत्यर्थः। अत्र संज्ञायामित्यनुवर्तते। अत एव `ह्मद्द्युभ्यां चे'त्यत्र ह्मद्ग्रहणमर्थवत्। कण्ठेकाल इति। शिवस्य नाम। उरसिलोमेति। कस्यचिन्नाम। अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.