Table of Contents

<<6-3-114 —- 6-3-116>>

6-3-115 कर्णे लक्षणस्य अविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य

प्रथमावृत्तिः

TBD.

काशिका

कर्णशब्दे उत्तरपदे लक्षणवाचिनो दीर्घो भवति विष्ट अष्टन् पञ्चन् मणि भिन्न छिन्न छिद्र स्रुव स्वस्तिक इत्येतान् वर्जयित्वा। दात्राकर्णः। द्विगुणाकर्णः। त्रिगुणाकर्णः। द्व्यङ्गुलाकर्णः। अङ्गुलाकर्णः। यत् पशूनां स्वामिविशेषसम्बन्धज्ञापनार्थं दात्राकारादि क्रियते तदिह लक्षणं गृह्यते। लक्षणस्य इति किम्? शोभनकर्णः। अविष्टादीनाम् इति किम्? विष्टकर्णः। अष्टकर्णः। पञ्चकर्णः। मणिकर्णः। भिन्नकर्णः। छिन्नकर्णः। छिद्रकर्णः। स्रुवकर्णः। स्वस्तिककर्णः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1021 कर्णै लक्षणस्य। दीर्घविधिः, `ढ्रलोपे' इत्यतस्तदनुवृत्तेः। यत्पशूनां स्वामिविशेषसंबन्धज्ञानार्थं दात्रशूलचक्राद्याकारचिन्हं क्रियते तल्लक्षणशब्देन विवक्षितम्। तेन `लम्बकर्ण' इत्यादौ नातिप्रसङ्गः। द्विगुणाकर्ण इति। द्विगुणरेखौ कर्णौ यस्येति विग्रहः। `अष्टकर्ण' इत्यादेरष्टसङ्ख्यालिपिचिह्नकर्ण इति वा।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.