Table of Contents

<<6-2-6 —- 6-2-8>>

6-2-7 पदे ऽपदेशे

प्रथमावृत्तिः

TBD.

काशिका

अपदेशो व्याजः, तद्वाचिनि तत्पुरुषे समासे पदशब्दे उत्तरपदे पूर्वपदं प्रकृतिस्वरं भवति। मूत्रपदेन प्रस्थितः। उच्चारपदेन प्रस्थितः। मूत्रशब्दः सिविमुच्योष्टेरू च इति ष्ट्रन्प्रत्ययान्तः, मूत्रयतेर् वा घञन्तः आद्युदात्तः। उच्चारशब्दो ऽपि घञन्तः थाथघञ्क्ताजबित्रकाणाम् 6-2-144 इत्यन्तोदात्तः। विशेषनसमासो ऽयं मयूरव्यंसकादिर् वा। अपदेशे इति किम्? विष्णोः पदम् विष्णुपदम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.