Table of Contents

<<6-2-4 —- 6-2-6>>

6-2-5 दायाद्यं दायादे

प्रथमावृत्तिः

TBD.

काशिका

तत्पुरुषे समासे दायादशब्दे उत्तरपदे दायाद्यवाचि पूर्वपदं प्रकृतिस्वरं भवति। विद्यादायादः। धनदायादः। संज्ञायां समजनिषद इति विद्याशब्दः क्यप्प्रत्ययान्तः। उदात्तः इति च तत्र वर्तते, तेन अयम् अन्तोदात्तः। कृ\उ0304पृ\उ0304वृजिमन्दिनिधाञ्भ्यः क्युः इति बहुलवचनात् केवलादपि धाञः क्युः प्रत्ययः, तेन धनशब्दः प्रत्ययस्वरेण आद्युदात्तः। अथ विद्यादायादः इति केन षष्ठी? स्वामीरीश्वराधिपतिदायाद इति। यद्येवं प्रतिपदविधाना च षष्ठी न समस्यते इति समासप्रतिषेधः प्राप्नोति? एवं तर्हि शेषलक्षणैवात्र षष्ठी, तस्यस् तु सप्तमी विधीयमाना बाधिका मा विज्ञायि इति पुनरभ्यनुज्ञायते। दायाद्यम् इति किम्? परमदायादः। अत्र समासान्तोदातत्वम् एव भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

–

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.