Table of Contents

<<6-2-153 —- 6-2-155>>

6-2-154 मिश्रं च अनुपसर्गम् असन्धौ

प्रथमावृत्तिः

TBD.

काशिका

तृतीया इति वर्तते। मिश्र इत्येतदुत्तरपदम् अनुपसर्गं तृतीयान्तात् परम् अन्तोदात्तं भवति असन्धौ गम्यमाने। गुडमिश्राः। तिलमिश्राः। सर्पिर्मिश्राः। मिश्रम् इति किम्? गुडधानाः। अनुपसर्गम् इति किम्? गुडसंमिश्राः। इह अनुपसर्गग्रहणं ज्ञापकम् अन्यत्र मिश्रगहणे सोपसर्गग्रहणस्य। तेन मिश्रश्लक्ष्णैः इति सोपसर्गेण अपि मिश्रशब्देन तृतीयासमासो भवति। असन्धौ इति किम्? ब्राह्मणमिश्रो राजा। ब्राह्मणैः सह संहितः ऐकार्थ्याम् आपन्नः। सन्धिः इति हि पणबन्धेन ऐकार्थ्यम् उच्यते। केचित् पुनराहुः गृह्यमाणविशेषा प्रत्यासत्तिः सन्धिः इति। अत्र राज्ञो ब्राह्मणैः सह देशप्रत्यासत्तावपि सत्यां मूर्तिविभागो गृह्यते इति ब्राह्मणमिश्रो रजा इति प्रत्युदाह्रियते। उदाहरणेष्वविभागापत्तिरेव गुडमिश्राः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.