Table of Contents

<<6-2-116 —- 6-2-118>>

6-2-117 सोर् मनसी अलोमौषसी

प्रथमावृत्तिः

TBD.

काशिका

सोः उत्तरं मनन्तम् असन्तं च बहुव्रीहौ समासे आद्युदात्तं भवति लोमोषसी वर्जयित्वा। सुकर्मा। सुधर्मा। सुप्रथिमा। असन्तम् सुपयाः। सुयशाः। सुस्रोताः। सुस्रत्। सुध्वत्। सोः इति किम्? कृतक्रमा। कृतयशाः। मनसी इति किम्? सुराजा। सुतक्षा। अलोमोषसी इति किम्? सुलोमा। सूषाः। अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति इत्यनर्थकयोरपि मनसोरिह ग्रहणम्। नञ्सुभ्याम् 6-2-172 इत्यस्य अयम् अपवादः। कपि तु परत्वात् कपि पूर्वम् इत्येतद् भवति। सुकर्मकः। सुस्रोतस्कः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.