Table of Contents

<<6-2-10 —- 6-2-12>>

6-2-11 सदृशप्रतिरूपयोः सादृश्ये

प्रथमावृत्तिः

TBD.

काशिका

सदृश प्रतिरूप इत्येतयोः उत्तरपदयोः सादृश्यवाचिनि तत्प्रुषे समासे पूर्वपदम् प्रकृतिस्वरं भवति। पितृसदृशः। मातृसदृशः। पितृमातृशब्दावुणादिष्वन्तोदात्तौ निपातितौ। षष्ठीसमासार्थं च सदृशग्रहणम् इह तदलुकि षष्ठ्याः प्रयोजयति, दास्याः सदृशः, वृषल्याः सदृशः इति। अत्र दासीवृषलीशब्दयोरन्तोदात्तत्वादुदात्तयणो हल् पूर्वत् 6-1-174 इति विभक्तिरन्तोदात्ता। पितृप्रतिरूपः। मातृप्रतिरूपः। सादृश्ये इति किम्? परमसदृशः। उत्तमसदृशः। समासार्थो ऽत्र पूज्यमानता न सादृश्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.