TBD.
ओतः अमि शसि च परतः पूर्वपरयोः आकारः आदेशो भवति। गां पश्य। गाः पश्य। द्यां पश्य। द्याः पश्य। द्योशब्दो ऽपि ओकारान्त एव विद्यते, ततो ऽपि परं सर्वनामस्थानं णितिष्यते, तेन नाप्राप्तायां वृद्धौ अयम् आकारो विधीयमानस्तां बाधते। अम् इति द्वितीयैकवचनं गृह्यते, शसा साहचर्यात्, सुपि इति चाधिकारात्। तेन अचिनवम्, असुनवम् इत्यत्र न भवति।
TBD.
215 ओतोऽम्शसोरचि आकार एकादेशः. गाम्. गावौ. गाः. गवा. गवे. गोः. इत्यादि..
283 औतोऽम्शसोः। छेद इति। आ-ओत इति च्छेदः, व्याख्यानादिति भावः। `ओत' इति तपरकरणम्। ओकारादित्यर्थः। अम्च शश्च अम्शसौ, तयोरिति विग्रहः। अवयवषष्ठ\उfffद्न्तमेतत्। `इको यणची'त्यतोऽचीत्यनुवर्तते। `एकः पूर्वपरयोः' इत्यधिकृतम्। तदाह–ओकारादित्यादिना। शस इह सुबेव गृह्रते ननु बह्वल्पार्थादिति तद्धितः शंस्, अचीत्यनुवृत्तेः, तद्धितस्य च शसोऽजादित्वाऽसंभवात्, `लशक्वतद्धिते' इत्यत्र तद्धितपर्युदासात्। ननु `चिञ् चयने' लङ्, अडागमः, उत्तमपुरुषो मिप्। `तस्थस्थमिपा'मिति तस्य अमादेशः। श्नुर्विकरणः। `सार्वधातुकार्घधातुकयोः' इति गुण ओकारः। अचिनो इति स्थितेऽवादेशे अचिनवमिति रूपम्। तत्र अचिनो अम् इति स्थिते अवादेशं बाधित्वा `औतोऽम्शसोः' इत्यात्वे `अचिताम्' इति स्यादित्यत आह–शसेति। गामिति। परापि `अञ्चोणिती'ति वृद्धिरिह न भवति, आत्वस्य निरवकाशतया तदपवादत्वादिति भाष्यम्। नहि वृद्धिविषयादन्यत्राऽऽत्वस्य प्रवृत्तिरस्तीति तदाशयः। नच द्योशब्दादमि आत्वं सावकाशं `गोतोणि'दिति णित्त्वस्य तत्राऽभावे वृद्धेरप्रसक्तेरिति वाच्यम्। अस्मादेव भाष्यादोतोणिदिति णित्त्वस्य वक्ष्यमाणत्वेन तस्यापि वृद्धिविषयत्वादिति भावः। गा इति। असर्वनामस्थानत्वान्न णिद्वत्त्वम्। नापि वृद्धिः। `औतोऽम्शसोः' इत्यात्वमिति भावः। टादावच्यावादेशं मत्वाह–गवा गवे इति। गोरिति। `ङसिङसोश्चे'ति पूर्वरूपमिति भावः। इत्यादीति। गवोः गवाम्। गवि इत्यादिशब्दार्थः। द्योशब्दओकारान्तः स्त्रीलिङ्गः। `सुरलोको द्योदिवौ द्वे स्त्रिया'मित्यमरः। सु=शोभना द्यौर्यस्येति बहुव्रीहौ पुंलिङ्गः। सुद्योस् इत्यादिसर्वनामस्थाने `गोतो णि'दित्यप्राप्ते।\र्\नोतो णिदिति वाच्यं। गोत इति गकारमपनीय `ओतो णित्' इति वाच्यमित्यर्थः। तत्र प्रमाणमनुपदमेवोक्तम्। नत्विदं वार्तिकम्। तत्र ओत इति तपरकरणम्। ओकारात् सर्वनामस्थानं णिदिति लभ्यते। इत्येतद्विहिताविशेषणमाश्रयणीयमित्यर्थः। तेनेति। गोत इति गकारमपनीय ओत इति वचनेनेत्यर्थः। सुद्यामित्यादीति। गोशब्दवद्रूपाणीति भावः। हे भानो इति। `ओकारात्परं सर्वनामस्थानं णि'दिति व्याख्याने तु भानुशब्दात्सम्बुद्धौ `ह्यस्वस्य गुणः' इति गुणे ओकारे सति सोरोकारात् परत्वाण्णिद्वत्त्वे वृद्धौ औकारे एङः परत्वाऽभावात्सुलोपाऽभावे रुत्वविसर्गयोः हे `भानौ'रिति स्यात्। अतो विहितविशेषणमित्यर्थः। ननु `एह्ह्यस्वात्सम्बुद्धेः' इत्यत्र-एङ्ग्रहणसामथ्र्यादेव हे भानो इत्यत्र णित्त्वं तत्प्रयुक्तवृद्धिश्च न भवति। अन्यथा `एङ्ह्यस्वात्' इत्येव ब्राऊयात्। अतो विहितविशेषणमनर्थकमित्यस्वारस्यादाह–हे भानव इति। तत्र `जसि चे'ति गुणे भानो अस् इति स्थिते ओतः परत्वाणिद्वत्त्वे वृद्धौ आवादेशे `भानावः' इति स्यात्। अतो विहितविशेषणमिति भावः। वस्तुतस्तु लक्षणप्रतिपदोक्तपरिभाषया हे भानो हे भानव इत्यत्र णिद्वत्त्वाऽभावोपपत्तेर्विहितविशेषणत्वाश्रयणं व्यर्थमेव। उः शम्भुरिति। उरित्यस्य विवरणं शम्भुरिति। उः स्मृतो येनेति विग्रहे बहुव्रीहिः। `निष्ठ'ति स्मृतशब्दस्य पूर्वनिपातः। `आद्गुणः'। स्मृतो इति रूपम्। ततः सुबुत्पत्तौ गोशब्दवद्रूपाणि। वस्तुतस्तु `गोतो णि'दिति सूत्रशेषतया `द्योश्च वृद्धिवक्तव्ये'त्येव वार्तिकं भाष्ये दृश्यते। `औतोऽम्शसोः' इत्यत्र ओतो णिदिति तु न दृश्यते। अतोऽन्यदोकारान्तं प्रातिपदिकं नास्तीत्याहुः। इत्योदन्ताः। अथैदन्ताः। रैशब्दो धनवाची। `अर्थरैविभवा अपि' इत्यमरः।
245 गौरित्यादि। `चित्रगु'रित्यत्र तु न भवति `ओत'इति वक्ष्यमाणत्वात्। `तद्धितो यः शस् स ओकारान्तान्न संभवती'त्याशयेनाह–शसा साहचर्यादिति। `सुपी'– त्यनुवर्तनाच्चेत्यपि काशिकयामुक्तम्। कैयटस्तु `तद्धितोऽपि शसस्तीति कथमिह साहचर्यादम्रः सुप्त्व'मित्याशङ्क्य, `अचीत्यधिकारदजादि शस सुबेव संभवति, न तु तद्धित'इत्याह। अचिनवमिति। चिनोतेर्लह्शब्देशस्य मिपः `तस्थस्थामिपाम्—- 'इत्यम्।\र्\नोतो णिदिति वाच्यम्। ओतो णिदिति वाच्यमिति। `गोत'इत्यपहाय `ओत'इति वाच्यमित्यर्थः। एवंच `गा'मित्यत्र परत्वाद्धृद्धिः स्यादिति शङ्कया अनवकाशः, नरवकाशतया आत्वेन वृद्धेरेव बाधनात्।इत्योदन्ताः।