Table of Contents

<<6-1-181 —- 6-1-183>>

6-1-182 न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः

प्रथमावृत्तिः

TBD.

काशिका

गो श्वन्, साववर्णः सौ प्रथमैकवचने यदवर्णान्तम्, राडङ् क्रुङ् कृदित्येतेभ्यो यदुक्तं तन् न भवति। गवा, गवे, गोभ्याम् इति। सावेकाचस् तृतीयादिर् विभक्तिः 6-1-168 इति प्राप्तिः प्रतिषिध्यते। सुगुना, सुगवे, सुगुभ्याम्। अन्तोदात्तादुत्तरपदातिति प्राप्तिः। श्वन् शुना, शुने, श्वभ्याम्। परमशुना, परमशुने, परमश्वभ्याम्। पूर्ववत् प्राप्तिः। साववर्णः सौ प्रथमैकवचने यदवर्णान्तं तस्य ग्रहणम्। येभ्यः। तेभ्यः। केभ्यः। राट् राजतिः क्विबन्तः। राजा। परमराजः। अङ् अञ्चतिः क्विबन्तः, तस्य सनकारस्य ग्रहणं विषयावधारणार्थम्, यत्र अस्य नलोपो न अस्ति तत्र प्रतिषेधो यथा स्यात्। नाञ्चेः पूजायाम् 6-4-60। इति प्रतिषिध्यते नलोपः। प्राञ्चा। प्राङ्भ्याम्। नलोपविषये तु भवत्येव विभक्तेरुदात्तत्वम्। प्राचा। प्राचे। प्राग्भ्याम्। क्रुङ् क्विन्नन्त एव क्रुञ्चा। परमक्रुञ्चा। कृत् करोति कृतिर् वा क्विबन्तः। कृता। परमकृता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.