TBD.
यजुषि इत्येव। आपो जुषाणो वृष्णो वर्षिष्ठे इत्येते शब्दाः अम्बे अम्बाले इत्येतौ च यावम्बिके शब्दात् पूर्वौ यजुषि पठितौ ते अति परतः प्रकृत्या भवन्ति। आपो अस्मान् मातरः शुन्धयन्तु। जुषणो अप्तुराज्यस्य। वृष्णो अंशुभ्यां गभस्तिपूतः। वषिष्ठे अधि नाके। अम्बे अम्बाल्यम्बिके यजुषीदमीदृशम् एव पठ्यते। अस्मादेव निपातनातम्बार्थनद्योर् ह्रस्वः (*7,6.107) इति ह्रस्वत्वं न भवति।
TBD.
–
–
–
TBD.