Table of Contents

<<5-4-41 —- 5-4-43>>

5-4-42 बह्वल्पार्थाच् छस्कारकादन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

बह्वर्थातल्पार्थाच् च कारकाभिधायिनः शब्दात् शस्प्रत्ययो भवति अन्यतरस्याम्। विशेषानभिधानाच् च सर्वं कर्मादिकारकं गृह्यते। बहूनि ददाति बहुशो ददाति। अल्पं ददाति अल्पशो ददाति। बहुभिर् ददाति बहुशो ददाति। अल्पेन, अल्पशः। बहुभ्यः, बहुशः। अल्पाय, अल्पशः इत्येवम् आद्युदाहार्यम्। बह्वल्पार्थातिति किम्? गां ददाति। अश्वं ददाति। कारकातिति किम्? बहूनां स्वामी। अल्पानाम् स्वामी। अर्थग्रहणात् पर्यायेभ्यो ऽपि भवति। भूरिशो ददाति। स्तोकशो ददाति। बह्वल्पार्थान् मङ्गलामङ्गलवचनम्। यत्र मङ्गलं गम्यते तत्र अयं प्रत्यय इस्यते। बहुशो ददाति इति आभ्युदयिकेषु कर्मसु। अल्पशो ददाति इति अनिष्टेषु कर्मसु।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1244 बहूनि ददाति बहुशः. अल्पशः. (आद्यादिभ्यस्तसेरुपसंख्यानम्). आदौ आदितः. मध्यतः. अन्ततः. पृष्ठतः. पार्श्वतः. आकृतिगणोऽयम्. स्वरेण, स्वरतः. वर्णतः..

बालमनोरमा

बह्वल्पार्थादिति। वार्तिकमिदम्। मह्गलाऽमङ्गलेगम्ये एवायं शसित्यर्थः। बहूनि ददात्यनिष्टेष्विति। भयादिनिमित्तेष्वित्यर्थः। अल्पं ददात्याभ्युदयिकेष्विति। अभ्युदयः=श्रेयः, तत्प्रयोजनकेष्विष्टापूर्तेष्वित्यर्थः। आभ्युदयिकेषु बहुदानम्, अनिष्टेषु अल्पदानं च मङ्गलम्। तद्विपरीतदानं त्वमङ्गलमिति भावः। अर्थग्रहणाद्भूरिशो ददाति, स्तोकशो ददाति इत्याद्यप्युदाहार्यम्।

तत्त्वबोधिनी

1570 बह्वल्पार्थात्। बहूनीति। `बहुभ्यो ददाति बहुशः' `अल्पेब्योऽल्पश'थिय्द्यपि बोध्यम्। बह्वल्पार्थात्किम्?। गां ददाति। अ\उfffदां ददाति। अर्थग्रहणात्पर्यायेभ्यो विशेषभ्यश्च। भूरिशो ददाति। त्रिशः। कारकात्किम्?। बहूनां स्वामी, अल्पानां स्वामी। `बहुशो ददात्याभ्युदयिकेषु कर्मसु। अल्पशो ददात्यनिष्टेषु'। आभ्युदयिकेषु बहुदानम्, अनिष्टेष्वल्पदानं च मङ्गलम्। तद्वैपरीत्येव दानं तु मङ्गसं न भवतीत्याशयेनाह—नेहेति। अनिष्टेष्विति। भयादिनिमित्तेषु दानेषु। आभ्युदयिकेष्विति। अभ्युदयप्रयोजनेऽग्न्याधेयादिषु। मूलपुस्तकेषु `मङ्गलाऽमङ्गलवचन'मिति प्रायेण पठ\उfffद्ते, तत्राऽमङ्गलग्रहणं वृथेत्याहुः। प्रायिकं चैतन्मङ्गलवचनमन्यत्रापि हि दृश्यते `अपेतापोढमुक्तपतितापात्रस्तैरल्पशः' इति। कारकत्वं तु समसनक्रियां प्रति पञ्चम्याः कर्मत्वात्दभिधायकत्वाच्चाल्पशब्दस्य। तथा च व्याचक्षते—अल्पा पञ्चमी समस्यत इति। `आचार्येणे'ति शेषः।

Satishji's सूत्र-सूचिः

TBD.