TBD.
प्रशंसोपाधिके ऽर्थे वर्तमानान् मृच्छब्दात् स स्न इत्येतौ प्रत्ययौ भवतः। रूपपः अपवादः। प्रशस्ता मृद् मृत्सा, मृत्स्ना। नित्यश्च अयं प्रत्ययः, उत्तरसूत्रे ऽन्यतरस्यां ग्रहणात्।
TBD.
–
सस्नौ। प्रशस्तायां मृदि वर्तमानान्भृच्छब्दात्स्वार्थे स स्न एतौ प्रत्ययौ स्त इत्यर्थः। रूपप इति। `प्रशंसायां रूपबि'ति विहितस्येत्यर्थः। नित्योऽयमिति। सस्नविधिरित्यर्थः। वस्तुतस्तु `ञ्यादयः प्राग्वुनः' इत्यादिपरिगणितेष्वनयोः प्रत्ययोरनन्तर्भावादनित्यत्वमेवाऽनयोरुचितमित्याहुः।
1569 सस्नौ। इह `प्रशंसायां रूप'बित्यस्यानन्तरं `वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि'। मृदः सस्नौ'। `तिकंश्चे'ति वक्तुमुचितम्। नचैवं सस्नाविति कन्प्रत्ययोऽपि प्रसंशायामेवेत्येवमतिप्रसङ्ग। `तिकश्चे'त्यत्र `प्रशंसाया'मिति निवृत्तिमिति कल्पनायां मानाऽबावादिति वाच्यं, `मृदः सस्नतिकनः'इति वक्तव्ये तिकनः पृखक्करणस्यैव तत्र मानत्वात्। प्रशस्ता मृदिति। `मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च भृत्तिके'त्यमरः। नित्योऽयमिति। मृदित्येतावदुक्ते प्रशस्तत्वानवगमाद्विभाषाऽत्र नानुवर्तत इति सस्नावित्ययं विधिर्नित्य एव। उत्तरसूत्रस्थाऽन्यतरस्याङ्ग्रहणात्तु सुतरामिति भावः।
TBD.