Table of Contents

<<5-4-31 —- 5-4-33>>

5-4-32 रक्ते

प्रथमावृत्तिः

TBD.

काशिका

लाक्षादिना रक्ते यो लोहितशब्दः, तस्मात् कन्प्रत्ययो भवति। लोहितकः कम्बलः। लोहितकः पटः। लिङ्गबाधनं वा इत्येव, लोहितिका, कोहिनिका शाटी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

रक्ते। लाक्षादिना रक्ते पटादौ लौहित्यस्य यावद्द्रव्यमवस्थानेन नित्यतया पूर्वेणाऽप्राप्तौ वचनम्।

तत्त्वबोधिनी

1563 लिङ्गबाधनं वेति। लोहितादित्युपलक्षणम्। एतिका एनिकेत्यादेरपि सङ्ग्रह्रत्वात्। `सुबन्तात्तद्धिताः'इति पक्षस्य `निरवकाशत्वमपवादत्व'मिति पक्षस्य च मुख्यत्वात्तदाश्रयणे तु `वर्णादनुदात्ता'दित्यास्यानन्तरमेव कनः प्रवृत्तेः कन्प्रतद्ययस्य पुंल्लिङ्गे सावकाशतया निरवकाशत्वाऽभावाच्च वार्तिकमिदं न कर्तव्यम्। अतएव ङ्याब्ग्रहणं व्यर्थमिति, स्वाम्पीति रूपं प्रबलमिति च मनोरमादावुक्तमिति दिक्।

Satishji's सूत्र-सूचिः

TBD.