Table of Contents

<<5-4-28 —- 5-4-30>>

5-4-29 यावादिभ्यः कन्

प्रथमावृत्तिः

TBD.

काशिका

याव इत्येवम् आदिभ्यः स्वार्थे कन्प्रत्ययो भवति। याव एव यावकः। माणिकः। याव। मणि। अस्थि। चण्ड। पीत। स्तम्ब। ऋतावुष्णशीते। पशौ लूनवियाते। अणु निपुणे। पुत्र कृत्रिमे। स्नात वेदसमाप्तौ। शून्य रिक्ते। दान कुत्सिते। तनु सूत्रे। ईयसश्च। श्रेयस्कः। ज्ञात। कुमारीक्रीडनकानि च। यावादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

यावादिभ्यः कन्। यावक इति। यवानामयं यावः=ओदनादिः, स एव यावकः। अलक्तवृक्षो वा यावः, स एव यावकः। `यवोऽलक्तो द्रुमामयः' इत्यमरः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.