Table of Contents

<<5-4-147 —- 5-4-149>>

5-4-148 उद्विभ्यां काकुदस्य

प्रथमावृत्तिः

TBD.

काशिका

उत् वि इत्येताभ्यां परस्य काकुदशब्दस्य लोपो भवति बहुव्रीहौ समासे। उद्गतं काकुदम् अस्य उत्का कुत्। विकाकुत्। तालु काकुदम् उच्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

979 लोपः स्यात्. उत्काकुत्. विकाकुत्..

बालमनोरमा

876 उद्विभ्यां काकुदस्य। लोप इति। उद्विभ्यां परस्य काकुदस्य लोपः स्याद्बहुव्रीहावित्यर्थः। उत्काकुदिति। उन्नतं काकुदं यस्येति विग्रहः। काकुदशब्दं व्याचष्टे-काकुदं ताल्विति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.