Table of Contents

<<5-4-145 —- 5-4-147>>

5-4-146 ककुदस्य अवस्थायां लोपः

प्रथमावृत्तिः

TBD.

काशिका

ककुदशब्दान्तस्य बहुव्रीहेर् लोपो भवति समासान्तः अवस्थायां गम्यमानायाम्। कालादिकृता वस्तुधर्मा वयःप्रभृतयः अवस्था इत्युच्यते। असञ्जातं ककुदम् अस्य असञ्जातककुत्। बालः इत्यर्थः। पूर्णककुत्। मध्यमवयाः इत्यर्थः। उन्नतककुत्। वृद्धवयाः इत्यर्थः। स्थूलककुत्। वलवानित्यर्थः। यष्टिककुत्। नातिस्थूलो नातिकृशः इत्यर्थः। अवस्थायाम् इति किम्? श्वेतककुदः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

874 ककुदस्य। अवस्थायां गम्यमानायां ककुदस्य लोपः स्याद्बहुव्रीहावित्यर्थः। आहारकालादिकृतोऽवयवनामुपचयोऽपचयश्चावस्थेत्युच्यते। बलीवर्ददोर्मूलगतो बाल्ये उद्भूतोऽवयवः ककुदम्। अजातककुदिति। अजातं ककुदमस्येति विग्रहः। बाल इत्यर्थः। पूर्णककुदिति। पूर्णं ककुदमस्येति विग्रहः। युवेत्यर्थः।

तत्त्वबोधिनी

761 अजातेति। अजातं ककुदमस्येति विग्रहः। इह हि बाल्यावस्था गम्यते।

Satishji's सूत्र-सूचिः

TBD.