Table of Contents

<<5-4-143 —- 5-4-145>>

5-4-144 विभाषा श्यावारोकाभ्याम्

प्रथमावृत्तिः

TBD.

काशिका

श्याव अरोक इत्येताभ्यां परस्य दन्तशब्दस्य दतृ इत्ययम् आदेशो भवति विभाषा समासान्तो बहुव्रीहौ। श्यावदन्, श्यावदन्तः। अरोकदन्, अरोकदन्तः। अरोको निर्दीप्तिः। संज्ञायाम् इत्येव, श्यवदन्तः। अरोकदन्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

872 विभाषा श्यावारोकाभ्यां। शेषपूरणेन सूत्रं व्याचष्टे–दन्तस्येति। श्यावदन्निति। श्यावा धूम्रा दन्ताः यस्येति विग्रहः। `श्यावः स्यात्कपिशो धूम्रः' इत्यमरः। अरोकदन्निति। अरोकाः=अदीप्ताः अच्छिद्रा वा दन्ता यस्येति विग्रहः।

तत्त्वबोधिनी

759 श्यावदन्निति। `श्यावः स्यात्कपिशः'इत्यमरः। अरोकदन्निति। अरोकाः=अच्छिद्रा दन्ता यस्य सः।

Satishji's सूत्र-सूचिः

TBD.