Table of Contents

<<5-4-142 —- 5-4-144>>

5-4-143 स्त्रियां संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

स्त्रियाम् अन्यपदार्थे संज्ञायां विषये दन्तशब्दस्य दतृ इत्ययम् आदेशो भवति। अयोदती। फालदती। संज्ञायाम् इति किम्? समदन्ती। स्निग्धदन्ती।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

871 स्त्रियां संज्ञायाम्। शेषपूरणेन सूत्रं व्याचष्टे–दन्तस्येति। वयोविशेषानवगमेऽपि प्राप्त्यर्थमिदम्। अयोदतीति। फालदतीति। संज्ञाविशेषाविमो। समदन्तीति। समा दन्ता यस्या इति विग्रहः `नासिकोदरे'ति ङीष्।

तत्त्वबोधिनी

758 समदन्तीति। `नासिकेदरे'त्यदिना ङीष्।

Satishji's सूत्र-सूचिः

TBD.