Table of Contents

<<5-4-142 —- 5-4-144>>

5-4-143 स्त्रियां संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

स्त्रियाम् अन्यपदार्थे संज्ञायां विषये दन्तशब्दस्य दतृ इत्ययम् आदेशो भवति। अयोदती। फालदती। संज्ञायाम् इति किम्? समदन्ती। स्निग्धदन्ती।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

871 स्त्रियां संज्ञायाम्। शेषपूरणेन सूत्रं व्याचष्टे–दन्तस्येति। वयोविशेषानवगमेऽपि प्राप्त्यर्थमिदम्। अयोदतीति। फालदतीति। संज्ञाविशेषाविमो। समदन्तीति। समा दन्ता यस्या इति विग्रहः `नासिकोदरे'ति ङीष्।

तत्त्वबोधिनी

758 समदन्तीति। `नासिकेदरे'त्यदिना ङीष्।

Satishji's सूत्र-सूचिः

TBD.