Table of Contents

<<5-4-105 —- 5-4-107>>

5-4-106 द्वन्द्वाच् चुदषहान्तात् समाहारे

प्रथमावृत्तिः

TBD.

काशिका

तत्पुरुषाधिकारो निवृत्तः। द्वन्द्वात् चवर्गान्तात्, दकारान्तात्, षकारान्तात्, हकारान्तात् च टच् प्रत्ययो भवति, स चेद् द्वन्द्वः समाहारे वर्तते, न इतरेतरयोगे। वाक् च त्वक् च वाक्त्वचम्। स्रक् च त्वक् च स्रक्त्वचम्। श्रीस्रजम्। इडूर्जम्। वागूर्जम्। समिद्दृषदम्। सम्पद्विपदम्। वाग्विप्रुषम्। छत्रोपानहम्। धेनुगोदुहम्। द्वन्द्वातिति किम्? तत्पुरुषान् मा भूत्, पञ्च वाचः समाहृताः पञ्चवाक्। चुदषहान्तातिति किम्? वाक्षमित्। समाहारे इति किम्? प्रावृट्शरदौ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

995

बालमनोरमा

–

तत्त्वबोधिनी

1588 द्वन्द्वात्। अन्तग्रहणं विस्पष्टार्थं। चु इति वर्गग्रहणस्य प्रयोजनं ध्वनयति—त्वक्रुआजमिति। बहूनां द्वन्द्वे तु वाक्त्वक्रुआजम्। द्वन्द्वगर्भे द्वन्द्वे तु वाक्त्वाचरुआजम्। \र्\निति तत्त्वबोधिन्यां द्वन्द्वः।

Satishji's सूत्र-सूचिः

TBD.