Table of Contents

<<5-4-105 —- 5-4-107>>

5-4-106 द्वन्द्वाच् चुदषहान्तात् समाहारे

प्रथमावृत्तिः

TBD.

काशिका

तत्पुरुषाधिकारो निवृत्तः। द्वन्द्वात् चवर्गान्तात्, दकारान्तात्, षकारान्तात्, हकारान्तात् च टच् प्रत्ययो भवति, स चेद् द्वन्द्वः समाहारे वर्तते, न इतरेतरयोगे। वाक् च त्वक् च वाक्त्वचम्। स्रक् च त्वक् च स्रक्त्वचम्। श्रीस्रजम्। इडूर्जम्। वागूर्जम्। समिद्दृषदम्। सम्पद्विपदम्। वाग्विप्रुषम्। छत्रोपानहम्। धेनुगोदुहम्। द्वन्द्वातिति किम्? तत्पुरुषान् मा भूत्, पञ्च वाचः समाहृताः पञ्चवाक्। चुदषहान्तातिति किम्? वाक्षमित्। समाहारे इति किम्? प्रावृट्शरदौ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

995

बालमनोरमा

तत्त्वबोधिनी

1588 द्वन्द्वात्। अन्तग्रहणं विस्पष्टार्थं। चु इति वर्गग्रहणस्य प्रयोजनं ध्वनयति—त्वक्रुआजमिति। बहूनां द्वन्द्वे तु वाक्त्वक्रुआजम्। द्वन्द्वगर्भे द्वन्द्वे तु वाक्त्वाचरुआजम्। \र्\निति तत्त्वबोधिन्यां द्वन्द्वः।

Satishji's सूत्र-सूचिः

TBD.