Table of Contents

<<5-4-103 —- 5-4-105>>

5-4-104 ब्रह्मणो जानपदाख्यायाम्

प्रथमावृत्तिः

TBD.

काशिका

ब्रह्मन्शब्दानतात् तत्पुरुषाट् टच् प्रत्ययो भवति समासेन चेद् ब्रह्मणो जानपदत्वम् आख्यायते। जनपदेषु भवः जानपदः। यस्य तत्प्रुषस्य जनपदशब्दः पूर्वपदं तस्मादेतत् प्रत्ययविधानम्। सुराष्ट्रेषु ब्रह्मा सुराष्ट्रब्रहमः। अवन्तिब्रह्मः। योगविभागात् सप्तमीसमासः। जानपदाख्यायम् इति किम्? देवब्रह्मा नारदः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

795 ब्राहृणो जानपदाख्यायां। जनपदे भवो जानपदः। भावप्रधानो निर्देशः। तस्य केनाख्येत्याकाङ्क्षायां प्रकृतत्वात्समासेनेति लभ्यते। तदाह–समासेनेत्यादि। जानपदत्वमित्यनन्तरं `ब्राहृण' इति शेषः। सुराष्ट्रे ब्राहृएति। ब्राहृशब्दोऽत्र पुंलिङ्गः। ब्राहृआ–विप्रः। `वेदस्तत्त्वं तपो ब्राहृ ब्राहृआ विप्रः प्रजापतिः' इत्यमरः। सप्तमीति योगुविभागात्समासः। टच्, टिलोपः, `परवल्लिङ्ग'मिति पुंस्त्वम्। जानपदेति किं ?। देवब्राहृआ नारदः।

तत्त्वबोधिनी

700 ब्राहृणो। जनपदे भवो जानपदः। `द्व्येकयो'रितिवद्भावप्रधानो निर्देशस्तस्याख्यायां, प्रत्यासत्त्या समासेनेत्येतल्लभ्यते। तदाह—समासेन जानपदत्विमिति। कस्येत्याकाङ्क्षायां संनिधानाह्ब्राआहृण इति लभ्यते। सुराष्ट्रब्राहृ इति। `सप्तमी'ति योगविभागात्समासः। जानपदेति किम्?। देवब्राहृआ नारदः।

Satishji's सूत्र-सूचिः

TBD.