Table of Contents

<<5-3-98 —- 5-3-100>>

5-3-99 जीविकार्थे चापण्ये

प्रथमावृत्तिः

TBD.

काशिका

जीविकार्थं यदपण्यम् तस्मिन्नभिधेये कनो लुब् भवति। विक्रीयते यत् तत् पण्य। वासुदेवः। शिवः। स्कन्दः। विष्णुः। आदित्यः। देवलकादीनां जीविकार्था देवप्रतिकृतय उच्यन्ते। अपण्ये इति किम्? हस्तिकान् विक्रीणीते। अश्वकान्। रथकान्। देवपथादेरेव अयं प्रपञ्चः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

जीविकार्थे चापण्ये। पण्यं–विक्रीयमाणम्। तदाह–अविक्रीयमाणमिति। वासुदेव इति। वासुदेवतुल्या जीविकार्था अविक्रेया प्रतिकृतिरित्यर्थः। एवं शिव इत्यादि। कथं प्रतिकृतेरविक्रेयाया जीविकार्थत्वमित्यत आह–देवलकानामिति। प्रतिमां गृहीत्वा भिक्षार्थं प्रतिगृहमटतामित्यर्थः। तत्तदायतनेषु प्रतिष्ठितासु पूजार्थप्रतिमासु उत्तरसूत्रेण लुब्वक्ष्यते। हस्तिकान्विक्रीणीते इति। जीविकार्थं हस्तितुल्यप्रतिकृतीर्विक्रीणीते इत्यर्थः। अत्र पण्यत्वप्रतीतेः कनो न लुक्। `सज्ञायां चे'तिज विहितस्य नायं लुप्, किन्तु `इवे प्रतिकृतौ' इति विहितस्यैव, भाष्ये प्रतिकृतावेव एतदुदाहरणात्। पठन्ति। चाभियुक्ताः–`रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो रामादिशब्दाः प्रतिकृतिषु वर्तन्ते। तासां चात्र पण्यतया कनो लुब्दुर्लभ इति रामसीतालक्ष्मणशब्दानामपशब्दत्वमित्याशयः।

तत्त्वबोधिनी

1533 वासुदेवः। शिव इत्यादि। याः प्रतिमाः प्रतिगृह्र गृहाद्गृहं भिक्षमाणाअटन्ति ता एवमुच्यन्ते। देवलका अपि त एव भिक्षवोऽभिप्रेताः। यास्त्वायतनेषु प्रतिष्ठाप्यन्ते पूज्यन्ते च तासूत्तरसूत्रेण लुप्। तदुक्तम्—`अर्चासु पूजनार्हासु चित्रकर्मध्वजेषु च। इवे प्रतिकृतौ लोपः कनो देवपथादिषु'। इति। अर्चासु=प्रतिमासु—कीदृशीषु?। पूजनार्हासु। गेहेष्वायतनेषु वा याः पूज्यन्ते तासु। चित्रकर्मध्वजाभ्यां तद्गताः प्रतिकृतयो लक्ष्यन्ते। अर्चासूदाहरणं–शिवः। विष्णुः। चित्ककर्मणि–अर्जुनः। दुर्योधनः। ध्वजेषु–कपिः। गरुडः। सिंहः। सुपर्णसिंहमकरादयो राज्ञां ध्वजेषु सन्ति। हस्तिकानिति। ईदृशमेव विषयमभिप्रेत्य पठन्ति—`रामं सीतां लक्ष्मणं जीविकार्थे विक्रीणीते यो नरस्तं च धिग्धिक्। अस्मिन्पद्ये योऽपशब्दान्न वेत्ति व्यर्थप्रज्ञं पण्डितं तं च धिग्धिक्'इति। अयं भावः–`अपण्ये'इत्युक्तत्वात्पण्ये हस्तिकानितिवत् रामकं सीतिकां लक्ष्मणकमिति प्रयोगा एव साधव इति।

Satishji's सूत्र-सूचिः

TBD.