Table of Contents

<<5-3-99 —- 5-3-101>>

5-3-100 देवपथादिभ्यश् च

प्रथमावृत्तिः

TBD.

काशिका

इवे प्रतिकृतौ 5-3-96), संज्ञायां च (*5,3.97 विहितस्य कनो देवपथादिभ्य उत्तरस्य लुब् भवति। आदिशब्दः प्रकारे। आकृतिगणश्च अयम्। देवपथः। हंसपथः। अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च। इवे प्रतिकृतौ लोपः कनो देवपथादिषु। अर्चासु तावत् शिवः। विष्णुः। चित्रकर्मणि अर्जुनः। दुर्योधनः। ध्वजेषु कपिः। गरुडः। सिंहः। देवपथ। हंस्पथ। वारिपथ। जलपथ। राजपथ। शतपथ। सिंहगति। उष्ट्रग्रीवा। चामरज्जु। रज्जु। हस्त। इन्द्र। दण्द। पुष्प। मत्स्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

देवपथादिभ्यश्च। कनो लुप् स्यादिति। शेषपूरणमिदम्। `इवे प्रतिकृतौ' इति विहितस्य देवपथादिभ्यः परस्य कनो लुप्स्यादिति यावत्। देवपथ इति। देवानां पन्थाः देवपथः। तत्प्रतिकृतिरित्यर्थः। `इवे प्रतिकृतौ लोपः कनो देवपथादिषु' इति। अर्चाः=प्रतिमाः। पूजार्थासु तासु, चित्रकर्मसु, ध्वजेषु देवपथादिगणपठितेषु `इवे प्रतिकृतौ'विहितस्य कनो लुबित्यर्थः। `तद्राजस्ये' ति सूत्रे कैयटोऽप्येतं श्लोकं पपाठ। अर्चासु यथा–शिवो विष्णुर्गणपतिरित्यादि। चित्रकर्मसु यथा–रावणः कुम्भकर्णः इन्द्रजिदित्यादि। ध्वजेषु यथाकपिः गरुडः वृषभ इत्यादि।

तत्त्वबोधिनी

1534 देवपथ इत्यादि। देवपथ इव प्रतिकृतिः हंसपथ इव प्रकृतिरिति विग्रहः।

Satishji's सूत्र-सूचिः

TBD.