Table of Contents

<<5-3-96 —- 5-3-98>>

5-3-97 संज्ञायां च

प्रथमावृत्तिः

TBD.

काशिका

इव इत्यनुवर्तते, कनिति च। इवार्थे गम्यमाने कन्प्रत्ययो भवति, समुदायेन चेत् संज्ञा गम्यते। अप्रतिकृत्यर्थ आरम्भः। अश्वसदृशस्य संज्ञा अश्वकः। उष्ट्रकः। गर्दभकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

संज्ञायां च। `क'निति शेषः। समुदायश्चेदिति। प्रकृतिप्रत्ययसमुदायश्चेत्प्रकृत्यर्थसदृशस्य संज्ञेत्यर्थः। पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह–अप्रतिकृत्यर्थमारम्भ इति तथाच प्रतिकृताविति निवृत्तम्। इव इति त्वनुवर्तत एव। तदाह–अ\उfffदासदृशस्येति। अ\उfffदासदृशश्य अमनुष्यस्य कस्यचित्संज्ञैषा। अ\उfffदासदृशोऽयम\उfffदाकसंज्ञक इति बोधः।

तत्त्वबोधिनी

1531 समुदायश्चेदिति। प्रकृतिप्रत्ययसमुदायश्चेद\उfffदासदृशस्य संज्ञेत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.