Table of Contents

<<5-3-95 —- 5-3-97>>

5-3-96 इवे प्रतिकृतौ

प्रथमावृत्तिः

TBD.

काशिका

कनित्यनुवर्तते। इवार्थे यत् प्रातिपदिकं वर्तते तस्मात् कन् प्रत्ययो भवति। इवार्थः सादृश्यं, तस्य विशेसणं प्रतिकृतिग्रहणम्। प्रतिकृतिः प्रतिरूपकं, प्रतिच्छन्दकम्। अश्व इव अयम् अश्वप्रतिकृतिः अश्वकः। उष्ट्रकः। गर्दभकः। प्रतिकृतौ इति किम्? गौरिव गवयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1241 कन् स्यात्. अश्व इव प्रतिकृतिरश्वकः. (सर्वप्रातिपदिकेभ्यः स्वार्थे कन्). अश्वकः..

बालमनोरमा

अथ तद्धिते स्वार्थिकप्रकरणं निरूप्यते। इवे प्रतिकृतौ। कन्स्यादिति। `अवक्षेपणे क'न्नित्यतस्तदनुवृत्तेरिति भावः। इवार्थौपमानत्वम्। तद्वति वर्तमानात्प्रातिपदिकात्कन्स्यात्प्रतिकृतिभूते उपमेये इति फलितम्। मृदादिनिर्मिता प्रतिमा प्रतिकृतिः। अ\उfffदाक इति। प्रतिकृतेः स्त्रीत्वेऽपि `स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते' इति पुंलिङ्गत्वम्।

तत्त्वबोधिनी

1530 अ\उfffदाक इति। अ\उfffदाशब्दोऽस्वे एव वर्तते, कन्प्रत्ययस्तु प्रतिकृतिरूपे सदृश इति नाऽयं स्वार्थिक इत्येके। अन्ये तु सादृश्यनिबन्धनादभेदोपचाराद्गौर्वाहिक इति वद\उfffदाशब्द एव प्रतिकृतौ वर्तते। प्रत्ययस्तु तस्यैवौपचारि कत्वस्य बोधक इत्याहुः। प्रतिकृतौ किम्?। गौरवि गवयः। तृणचर्मकाष्ठादिनिर्मितं प्रतिमाऽपरपर्यायं वस्तु प्रतिकृतिः। गवयस्तु नैवम्।

Satishji's सूत्र-सूचिः

TBD.