Table of Contents

<<5-3-84 —- 5-3-86>>

5-3-85 अल्पे

प्रथमावृत्तिः

TBD.

काशिका

परिमाणापचये अल्पशब्दः। प्रकृतिविशेषणं च एतत्। अल्पत्वविशिष्टे अर्थे वर्तमानात् प्रातिपदिकात् यथाविहितं पत्ययो भवति। अल्पं तैलम् तैलकम्। घृतकम्। सर्वकम्। विश्वकम्। उच्चकैः। नीचकैः। पचतकि। जल्पतकि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

अल्पे। अल्पत्वविशिष्टे वर्तमानाद्यथाविहितं प्रत्ययाः स्युः। तैलकमिति। `सर्वकम्' `उच्चकैः' `पचतकी'त्याद्यप्युदाहार्यम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.