Table of Contents

<<5-3-82 —- 5-3-84>>

5-3-83 ठाजादावूर्ध्वं द्वितीयादचः

प्रथमावृत्तिः

TBD.

काशिका

लोपः इत्यनुवर्तते। अस्मिन् प्रकरणे यः ठः अजादिश्च प्रत्ययः, तस्मिन् परतः प्रकृतेर् द्वितीयादच ऊर्ध्वं यच् छब्दरूपं तस्य लोपो भवति। ऊर्ध्वग्रहणं सर्वलोपार्थम्। अनुकम्पितो देवदत्तः देविकः, देवियः, देविलः। यज्ञिकः, यज्ञिक्यः, यज्ञिलः। उपडः, उपक, उपियः, उपिलः, उपिकः। ठग्रहणमुको द्वितीयात्वे कविधानार्थम्। अजादिलक्षणे हि माथितिकादिवत् प्रसङ्गः। वायुदत्तः वायुकः। पितृदत्तः पितृकः। चतुर्थादच ऊर्ध्वस्य लोपो वक्तव्यः। अनुकम्पितो बृहस्पतिदत्तः बृहस्पतिकः बृहस्पतियः बृहस्पतिलः। अनजादौ विभाषा लोपो वक्तव्यः। देवदत्तकः, देवकः। यज्ञदत्तकः, यज्ञकः। लोपः पूर्वपदस्य च ठाजादावनजादौ च वक्तव्यः। दत्तिकः, दत्तिलः, दत्तियः, दत्तकः। विना ऽपि प्रत्ययेन पूर्वोत्तरपदयोः विभाषा लोपो वक्तव्यः। देवदत्तो दत्तः, देव इति वा। उवर्णाल् ल इलस्य च। भानुदत्तो भानुलः। वसुदत्तो वसुलः। चतुर्थादनजादौ च लोपः पूर्वपदस्य च। अप्रत्यये तथा एव इष्ट उवर्णाल् ल इलस्य च। द्वितीयादचो लोपे सन्ध्यक्षरद्वितीयत्वे तदादेर् लोपवचनम्। लहोडः लहिकः। कहोडः कहिकः। एकाक्षरपूर्वपदानाम् उत्तरपदलोपो वक्तव्यः। वागाशीः वाचिकः। स्रुचिकः। त्वचिकः। कथं षडङ्गुलिदत्तः षडिकः इति? षषष्ठाजादिवचनात् सिद्धम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

ठाजादौ। अस्मिन्प्रकरणे इति। अनुकम्पायां, नीतौ चेत्यस्मिन्प्रकरणे इत्यर्थः। सन्निधानलभ्यमिदम्। सर्वमिति। ऊर्द्ध्वग्रहणादिदं लभ्यते। अन्यथा `आदेः परस्ये'ति परिभाषया द्वितीयाऽचो यः परस्तस्यादेरेव स्यादिति भावः। `अजिनान्तस्योत्तरपदलोपश्चे'त्यतो लोप इत्यनुवृत्तमिह कर्मसाधनमाश्रीयते इति मत्वाह–लुप्यत इति। देविक इति। देवदत्तशब्दाट्ठचि द्वितीयादचः परस्य दत्तशब्दस्य लोपे इकादेशे रूपम्। देविय इति। देवदत्तशब्दाद्धनि दत्तशब्दस्य लोपे इयादेशे रूपम्। देविल इति। इलचि दत्तशब्दस्य लोपः। देवदत्तक इति। कप्रत्यये सति ठाऽजाद्यभावान्न दत्तपदलोपः। वायुक इति। वायुदत्तशब्दाद्दत्तशब्दस्य लोपः। उकः परत्वाट्ठस्य कः। नन्विकादेशे सति देविक इत्यत्र अजादित्वादेव सिद्धे ठग्रहणं व्यर्थमित्यत आह–ठग्रहणमिति। कृत एव ठग्रहणे वायुशब्दात्परस्य दत्तशब्दस्य लोपे इयादेशे रूपम्। देविल इति। इलचि दत्तशब्दस्य लोपः। देवदत्तक इति। कप्रत्यये सति ठाऽजाद्यभावान्न दत्तपदलोपः। वायकु इति। वायुदतद्तशब्दाद्दत्तशब्दस्य लोपः। उकःपरत्वाट्ठस्य कः। नन्विकादेशे सति देविक इत्यत्र अजादित्वादेव सिद्धे ठग्रहणं व्यर्थमित्यत आह–ठग्रहणमिति। कृत #एव ठग्रहणे वायुशब्दात्परस्य दत्तशब्दस्य ठावस्थायामेव नित्यत्वाल्लोपे कृते ठस्य उकः परत्वात्कादेशः सिध्यति। अन्यथा इकादेशे कृतेऽजादित्वं पुरस्कृत्य दत्तशब्दस्य लोपे सति वायु–इक इति स्थिते ठस्याऽभावात्कादेशो न स्यात्। नच स्थानिवत्त्वादिकस्य ठत्वं शह्क्यं, `ठस्येकः' इत्यत्र स्थान्यादेशयोरकार उच्चारणार्थ इति पक्षे अल्विधित्वात्सन्निपातपरिभाषाविरोधाच्चेति भाष्ये स्पष्टम्। पितृक इति। पितृदत्तशब्दाठ्ठचि दत्तशब्दस्य लोपे उकः परत्वाट्ठस्य कः। अथ `चतुर्थादनजादौ वा लोपः पूर्वपदस्य च। \र्\नप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च।' इति वक्ष्यमाणश्लोकवार्तिकं भङ्क्त्वा `चतुर्थादच' इत्येतद्व्याचष्टे–चतुर्थादच इति। बृहस्पतिक इति। बृहस्पतिदत्तशब्दाट्ठचि दत्तशब्दस्य लोपे ठस्य इकादेशः। द्वितायादूध्र्वत्वाऽभावादप्राप्ते वचनम्। व्याचष्टे–अनजादौ चेति। `अनजादौ चे'पाठे विभाषेति भाष्यलब्धम्, तत्र देवत्तको देवक इति कप्रत्यये दत्तलोपविकल्पोदाहरणात्। `विभाषे'ति शेषः। अनजादाविति तु नात्र सम्बध्यते। तदाह–दत्तिक इत्यादि। धनि इलचि के च रूपम्। `अप्रत्यये तथैवेष्ट' इति वार्तिकभागं व्याचष्टे–विनापि प्रत्ययमिति। दत्तः देव इति। देवदत्तशब्दाट्ठाजादिप्रत्ययस्याप्यभावे पूर्वोत्तरपदयोः क्रमेण लोपे रूपम्। \र्\नुवर्णादिति। `ल' इति लोपस्य पूर्वाचार्यसंज्ञा। उवर्णात्परस्य इलचो लोपः स्यादित्यर्थः। `आदेः परस्ये'तीकारस्य लोपः। चकारेण ठाजादौ द्वितीयादच ऊध्र्वं लोपः सूत्रसिद्धोऽनुद्यते। \र्\नृवर्णादपीति। ऋवर्णादपि परस्य इलच आदेर्लोपः स्यादित्यर्थः। सवित्रियः सवितृल इति। धनि इलचि च रूपम्। वस्तुतस्तु ऋवर्णादपीति भाष्याऽदृष्टत्वादुपेक्ष्यम्।

तत्त्वबोधिनी

1519 ठाजादौ। समाहारद्वन्द्वे सौत्रं पुंस्त्वम्। आदिग्रहणं चिन्त्यप्रयोजनं, `यस्मिन्विधिस्तदादौ'इत्येव सिद्धमिति हरदत्तः। अस्मिन्प्रकरण इति। अनुकम्पायां नीतौ चेत्यर्थद्वस्यैव प्रत्यासत्त्या बुद्धौ सन्निधानादिति भावः। ऊध्र्वग्रहणिह सर्वलोपार्थम्। अन्यथा `आदेः परस्ये'त्यादेरेव स्यादित्यभिप्रेत्याह—– द्वितीयादच ऊध्र्व सर्वमिति। `अजिनान्तस्ये'त्यतो लोप इत्यनुवर्तनादाह—लुप्यत इति। ननु ठग्रहणं व्यर्थम्, इकादेशे कृते अजादावित्येव सिद्धत्वादत आह— ठग्रहणमुको द्वितीयत्व इति। वायुक इति। वायुशब्दात्परस्य दत्तशब्दस्य ठावस्थायामेव वलोपे `इसुसुक्तान्ता'दिति कः। किंच पृथक् ठग्रहणस्य प्रयोजनान्तरमप्यस्ति। यदा तु चित्रगुग्रभृतिभ्ष्ठच्, तदोगन्तत्वात्कादेशप्राप्त्या प्रथममिकादेशस्याऽसंभवेनाजादिलक्षणो लोपो न स्यादिति तदर्तमपि ठग्रहणम्। तेन ठावस्थायामुत्तरपदलोपे कादेशस्याऽसंभवादिकादेशे `चित्रिक'इति रूपं सिध्यतीति बोध्यम। `चतुर्थादनजादौ चे'ति वक्ष्यमाणमेव भङ्क्त्वा व्याचष्टे—चतुर्थादच ऊध्र्वस्येति। \र्\ननजादौ च विभाषा लोपो वक्तव्यः। अनजादाविति। हलादावित्यर्थः। `अस्मिन् प्रकरणे'इत्येव। ठाजादावनजादौ चेति बोध्यः। `अप्रत्यये ततैवेष्टः'इत्येतद्व्याचष्टे—विनापि प्रत्ययमिति।\र्\नुवर्णाल्ल इलस्य च। ल इलस्य चेति। इलस्य लः=लोपः इत्यर्थः। तत्र `आदेः परस्ये'ति इकारलोपो बोध्याः।

Satishji's सूत्र-सूचिः

TBD.