Table of Contents

<<5-3-78 —- 5-3-80>>

5-3-79 घनिलचौ च

प्रथमावृत्तिः

TBD.

काशिका

अनुकम्पायाम् इत्यादि सर्वम् अनुवर्तते। पूर्वेण ठचि विकल्पेन प्राप्ते वचनम्। बह्वचो मनुस्यनाम्नो घनिलचित्येतौ प्रत्ययौ भवतः। चकाराद् यथाप्राप्तं च। देवियः, देविलः, देविकः, देवदत्तकः। यज्ञियः, यज्ञिलः, यज्ञिकः, यज्ञदत्तकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

घनिलचौ च। तत्रैवेति। शेषपूरणमिदम्। `बह्वच' इति पूर्व सूत्रविषये इत्यर्थः। `अनुकम्पाया'मिति, `नीतौ च तद्युक्ता'दिति च सूत्रद्वयविषये बह्वचो मनुष्यनाम्नो घन् इलच् एतौ च प्रत्ययावित्यर्थः।

तत्त्वबोधिनी

1518 घनिलचौ च। चकाराद्यथाप्राप्तमिति काशिका। इह पूर्वसूत्रेणाव ठञ् विहितः। वावचनात्कोऽपि। चकारेण तु कस्याभ्यमुज्ञेति चिन्त्यं, योगविभागे फलमपि चिन्त्यमिति हरदत्तः।

Satishji's सूत्र-सूचिः

TBD.