Table of Contents

<<5-3-37 —- 5-3-39>>

5-3-38 उत्तराच् च

प्रथमावृत्तिः

TBD.

काशिका

उत्तरशब्दादाजाही प्रत्ययौ भवतः अस्तातेरर्थे दूरे चेदवधिमानवधेर् भवति। उत्तरा वसति, उत्तराहि वसति। उत्तरा रमणीयम्, उत्तराहि रमणीयम्। दूरे इत्येव, उत्तरेण प्रयाति। पञ्चम्याः इत्येव, उत्तरादागतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

उत्तराच्च। `आच् आहि चे'ति शेषः। अतसुचा आतिना च चत्वारि रूपाणि।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.